१७६

तत्र साम्मुख्य-द्वार-भूतस्य कर्मणः साक्षात्-साम्मुख्य-रूप-ज्ञान-भक्त्य्-उदय-पर्यन्तत्वात् स्वयम् एव ताभ्यां न्यक्कारः । तत्र साक्षात्-साम्मुख्ये च निर्विशेष-साम्मुख्यं ज्ञानम् । स-विशेषस्यापि तत्त्वस्य भगवत्त्वं परमात्मत्वं चेति मुख्यम् आविर्भाव-द्वयम् इति स-विशेष-साम्मुख्य-रूपाया भक्तेस् तु मुख्यं भेद-द्वयं भगवन्-निष्ठत्वं परमात्म-निष्ठत्वं चेति । तद् एतत् त्रयं श्री-गीतासूक्तम् ।

तत्र अक्षरं ब्रह्म परमम् [गीता ८.३] इत्य् अक्षर-शब्देन पूर्वोक्तं ब्रह्म । तत्-साम्मुख्य-रूपं ज्ञानात्मकम् उपासनं चोत्तरोक्तं, यथा—यद् अक्षरं वेद-विदो वदन्ति [गीता ८.११] इत्य्-आदि । तथा परमात्मानम् अपि—पुरुषश् चाधिदैवतम् [गीता ८.४] इति, अधियज्ञोऽहम् एवात्र देहे देहभृतां वर [गीता ८.४] इति च । विराड् व्यष्टि-रूपाधिष्ठान-द्वय-भेदेन भिन्न-प्रायम् उक्त्वा, भक्ति-रीति-द्वयी तयोर् एक-प्राया दर्शिता । तत्रअभ्यास-योग-युक्तेन [गीता ८.८] इत्य्-आदिनैका, कविं पुराणम् अनुशासितारम् [गीता ८.९] इत्य्-आदिनान्या । तथा मच्-छब्दोक्त-श्री-कृष्णाख्य-भगवद्-भक्ति-प्रकारश् चायम्—

अनन्य-चेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ [गीता ८.१४] इति ।

तद् एतत् साम्मुख्य-त्रयं श्री-कपिल-देवेनाप्य् उक्तम्—

ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।
दृश्य्-आदिभिः पृथग्-भावैर् भगवान् एक ईयते ॥ [भा।पु। ३.३२.२६] इति ।

दृशिर् ज्ञानम् । पृथक् परस्परम् अन्यादृशो भावो भावना । येषु तथा-विधैर् ज्ञानादिभिर् एक एव परिपूर्ण-स्वरूप-गुणः परं-ब्रह्मेयतेपरमात्मेयतेभगवांश् चेयते । तत्र ज्ञानेन पर-ब्रह्मतया ज्ञायते, भक्ति-विशेषेण परमात्मतया, पूर्णया भक्त्या भगवत्तयेति ज्ञेयम् । पर-ब्रह्मणः स्वरूप-लक्षणं ज्ञान-मात्रम् इति, परमात्मन ईश्वरः पुमान् इति, भगवतो भगवान् इत्य् एव ।

विवृतं चैतत् साम्मुख्य-त्रयं भगवत्-परमात्म-सन्दर्भयोः । ब्रह्मणः, तथापि भूमन् [भा।पु। १०.१४.६] इत्य्-आदिना । परमात्मनः, केचित् स्वदेहान्तर्-हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तम् [भा।पु। २.२.८] इत्य्-आदिना । भगवतः, भक्ति-योगेन मनसि [भा।पु। १.७.४] इत्य्-आदिना च ।

तथा च यद्यपि साम्मुख्यत्वेनाविशिष्टं ज्ञानादि-त्रयम् अपि तद्-वैमुख्य-प्रतियोगि भवेत्, तथापि श्रेयः-सृतिं भक्तिम् उदस्य ते विभो [भा।पु। १०.१४.४] इत्य्-आदिना भक्तिं विना केवल-ज्ञानस्याकिञ्चित्करत्वात्, तत्रापि च तस्मान् मद्-भक्ति-युक्तस्य [भा।पु। ११.२०.३१] इत्य्-आदौ भक्तेस् तन्-निरपेक्षत्वात्, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदाव् आनुषङ्गिक-सर्व-फलत्वाच् च, ज्ञानम् अपि न्यक्कृतम् ।

ततोऽवशिष्टायां स-विशेषोपासन-रूपायां भक्तौ च श्री-विष्णु-रूपम् अबहु-मन्यमानाः केचिन् निराकारेश्वरस्यान्याकारेश्वरस्य चोपासनां यां मन्यन्ते, सापि न्यक्कृतास्ति । यतो हिरण्यकशिपोर् अपि, नित्य आत्माव्ययः शुद्धः [भा।पु। ७.२.१८] इत्य्-आदि-तद्-वाक्येन यदृच्छयेशः सृजतीदम् अव्ययः [भा।पु। ७.२.३४] इत्य्-आदि-तद्-उदाहृतेतिहास-वाक्येन, तत्-कृत-ब्रह्म-स्तवेन च ब्रह्म-ज्ञानं निराकारेश्वर-ज्ञानम् अन्याकारेश्वर-ज्ञानं तस्यास्तीति वर्ण्यते । श्री-विष्णौ देवता-सामान्य-दृष्टेर् निन्द्यते च स इति । तथान्यत्राहंग्रहोपासना च न्यक्कृता, पौण्ड्रक-वासुदेवादौ यदुभिर् इव शुद्ध-भक्तैर् उपहास्यत्वात् । सालोक्य-सार्ष्टि-सारूप्य- [भा।पु। ३.२९.११] इत्य्-आदिषु तत्-फलस्य हेयतया निर्देशात् । तद् उक्तं श्री-हनुमता—को मूढो दासतां प्राप्य प्राभवं पदम् इच्छति [पद्या। ११०] इति । तद् एतत् सर्वम् अभिप्रेत्य निष्किञ्चनां भक्तिम् एव तादृश-भक्त-प्रशंसा-द्वारेण सर्वोर्ध्वम् उपदिशति—

न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ [भा।पु। ११.२०.३४]

टीका च—धीरा धीमन्तो यतो ममैकान्तिनो मय्य् एव प्रीति-युक्ताः, अतो मया दत्तम् अपि न गृह्णन्ति, किं पुनर् वक्तव्यं न वाञ्छन्ति इत्य् अर्थः । अपुनर्-भवम् आत्यन्तिक-कैवल्यम् ॥ इत्य् एषा ।ईदृशानाम् एकान्तिनाम् एव परम-महिमा गारुडे—

ब्राह्मणानां सहस्रेभ्यः सत्र-याजी विशिष्यते ।
सत्र-याजि-सहस्रेभ्यः सर्व-वेदान्त-पारगः ॥
सर्व-वेदान्त-वित्-कोट्यां विष्णु-भक्तो विशिष्यते ।
वैष्णवानां सहस्रेभ्यः एकान्त्य् एको विशिष्यते ॥ इति ।