तद् एवं कर्मार्पण-केवल-ज्ञान-केवल-भक्तयोऽधिकारि-भेदेन व्यवस्थापिताः । ततः स्वाधिकारानुसारेणैव स्थातव्यम् इत्य् आह—
स्वे स्वेऽधिकारे या निष्ठा सा गुणः परिकीर्तितः ।
विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥ [भा।पु। ११.२१.२] इति ।
स्पष्टम् ॥ ११.२१ ॥ श्री-भगवान् ॥ १७५ ॥