तद् एतत् पद्यं स्वयम् एवाग्रे व्याख्यास्यते द्वाभ्यां—
जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु ।
वेद दुःखात्मकान् कामान् परित्यागेऽप्य् अनीश्वरः ॥
ततो भजेत मां प्रीतः श्रद्धालुर् दृढ-निश्चयः ।
जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥
[भा।पु। ११.२०.२७-२८]
कथा इत्य् उपलक्षणं, मत्-कथादिषु । एतद् एव केवलं परमं श्रेय इति जात-विश्वासः । अत एवान्येषु कर्मसु उद्विग्नः, किन्तु वर्तमानेषु प्राचीन-पुण्य-कर्म-फल-भागेषु एवं-भूत इत्य् आह—वेदेति । ततस् तां वेदेत्य्-आदि-व्याख्याताम्, न निर्विण्णो नातिसक्तः[भा।पु। ११.२०.८] इत्य् एवं-लक्षणाम् अवस्थां आरभ्यैवेत्य् अर्थः । मां भजेत मदीयानन्यताख्य-भक्ताव् अधिकारी स्यात्, न तु ज्ञानवज् जाते सम्यग्-वैराग्य एव । तस्याः स्वतः शक्तिमत्त्वेनान्य-निरपेक्षत्वाद् इत्य् अर्थः । अनन्तरं च वक्ष्यते—
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । [भा।पु। ११.२०.३१-३२] इत्य्-आदि ।
न च कर्म-निर्वेद सापेक्षत्वम् आपतितम् । स तु भक्तेः सर्वोत्तमत्व-विश्वासेन स्वत एव प्रवर्तते । अतो निर्विण्ण इत्य् अनुवाद-मात्रम् । अत एव यद्यपि ज्ञान-कर्मणोर् अपि श्रद्धापेक्षास्त्य् एव, तां विना बहिर् अन्तः सम्यक् प्रवृत्त्य्-अनुपपत्तेः, तथाप्य् अत्र श्रद्धा-मात्रस्य कारणत्वेन विशेषतस् तद्-अङ्गीकारः । अत्रापि च तद्-अपेक्षा पूर्ववत् सम्यक्-प्रवृत्त्य्-अर्थैव, तां विना अनन्यताख्य-भक्तिस् तथा न प्रवर्तते । कदाचित् किञ्चित् प्रवृत्ता च नश्यतीति । अत एव न निर्विण्णो नातिसक्तः इत्य् अस्यानन्तरम् अपि मत्-कथा-श्रवणादौ वा इत्य् अत्र श्रद्धायां जातायाम् एव कर्म-परित्यागो विहितः ।
भक्ति-मात्रं तु तां विना सिद्ध्यति—सकृद् अपि परिगीतं श्रद्धया हेलया वा भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम इत्य्-आदौ;
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ [भा।पु। ३.२५.२५]
इत्य्-आदौ च तत्-पूर्वतोऽपि तस्याः फल-दातृत्व-श्रवणात्;
म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् ।
अजामिलोऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥ [भा।पु। ६.२.४९]
इत्य्-आदौतथा फल-दातृत्व-सौष्ठव-श्रवणाच् च ।
सा च श्रद्धा शास्त्राभिधेयावधारणस्य एवाङ्गं, तद्-विश्वास-रूपत्वात् । ततो नानुष्ठानाङ्गत्वे प्रविशति ।
भक्तिश् च फलोत्पादने विधि-सापेक्षापि न स्यात्, दाहादि-कर्मणि वह्न्य्-आदिवद् भगवच्-छ्रवण-कीर्तनादीनां स्वरूपस्थ-तादृश-शक्तित्वात्1 । ततस् तस्याः श्रद्धाद्य्-अपेक्षा कुतः स्यात् ? अतः श्रद्धां विना च क्वचिन्मूढादाव् अपि सिद्धिर् दृश्यते, श्रद्धया हेलया वा इत्य्-आदौ । हेला त्व् अपराध-रूपाप्यबुद्धि-पूर्वक-कृता चेद् दौरात्म्याभावे न भक्त्या2 बाध्यत इत्य् उक्तम् एव । ज्ञान-लव-दुर्विदग्धादौ तु तद्-वैपरीत्येन बाध्यते, यथा मत्सरेण नामादिकं गृह्णति वेणे । क्वचिद् वस्तु-शक्तिर् बाधिता दृश्यते, आर्द्रेन्धनादौ वह्नि-शक्तिर् इव।
श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ।
भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥ [भा।पु। ११.२७.१८]
इत्य् अत्र श्रद्धा-भक्ति-शब्दाभ्याम् आदर एवोच्यते । स तु भगवत्-तोष-लक्षण-फल-विशेषस्योत्पत्ताव् अनादर-लक्षण-तद्-विघातकापराधस्य निरसन-परः । तस्मात् श्रद्धा न भक्त्य्-अङ्गं, किन्तु कर्मण्य् अर्थि-समर्थ-विद्वत्ता-वद् अनन्यताख्यायां भक्तौ अधिकारि-विशेषणम् एवेति। अत एव तद्-विशेषणत्वेनैवोक्तं, यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् [भा।पु। ११.२०.८] इति, जात-श्रद्धो मत्-कथासु [भा।पु। ११.२०.२७] इति च ।
अत्र ताम् आरभ्येत्य् अर्थेन ल्यब्-लोपे पञ्चम्य्-अन्तेन तत इति पदेनानवधिक-निर्देशेनात्मारामतावस्थायाम् अपि सा केषांचित् प्रवर्तत इति तस्याः साम्राज्यम् अभिप्रेतम् । अनन्तरं च वक्ष्यते न किञ्चित् साधवो धीराः [भा।पु। ११.२०.३४] इति । अतः साम्राज्य-ज्ञापनया तां विना कर्म-ज्ञाने अपि न सिध्यत इति च ज्ञापितम् ।
तद् एवम् अनन्य-भक्त्य्-अधिकारे हेतुं श्रद्धा-मात्रम् उक्त्वा, स यथा भजेत् तथा शिक्षयति—स श्रद्धालुर् विश्वासवान् । प्रीतो जातायां रुचाव् आसक्तः । दृढ-निश्चयः साधनाध्यवसाय-भङ्ग-रहितः सन् । सहसा त्यक्तुम् असमर्थत्वात् कामान् जुषमाणश् च गर्हयंश् च । गर्हणे हेतुः—दुःखोदर्कान् शोकादि-कृद्-उत्तर-कालान्3 इति । अत्र कामा अपाप-करा एव ज्ञेयाः, शास्त्रे कथञ्चिद् अप्य् अन्यानुविधानायोगात् । प्रत्युत—
पर-पत्नी-पर-द्रव्य-पर-हिंसासु यो मतिम् ।
न करोति पुमान् भूप तुष्यते तेन केशवः ॥ [वि।पु। ३.८.१४]
इति विष्णु-पुराण-वाक्यादौ कर्मार्पणात् पूर्वम् एव तन्-निषेधात् । अत्रैव च निष्काम-कर्मण्य् अपि यद्य् अन्यन् न समाचरेत् [भा।पु। ११.२०.१०] इति वक्ष्यमाण-निषेधात् । कर्म-परित्याग-विधानेन सुतरां दुष्कर्म-परित्याग-प्रत्यासत्तेः । विष्णु-धर्मे—
मर्यादां च कृतां तेन यो भिनत्ति स मानवः ।
न विष्णु-भक्तो विज्ञेयः साधु-धर्मार्चितो हरिः ॥
इति वैष्णवेष्व् अपि तन्-निषेधात् ।
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ [भा।पु। ४.२१.३१]
इत्य् अत्र सद्यः-शब्द-प्रयोगेण जात-मात्र-रुचीनाम्—
यदा नेच्छति पापानि
यदा पुण्यानि वाञ्छति ।
ज्ञेयस् तदा मनुष्येन्द्र
हृदि तस्य हरिः स्थितः ॥
इति विष्णु-धर्म-नियमेन च,
विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति
सर्वं हृदि सन्निविष्टः [भा।पु। ११.५.४२]
इत्य्-अत्रापि कथञ्चिच्-छब्द-प्रयोगेण लब्ध-भक्तीनां च,
स्वतस् तत्-प्रवृत्त्य्-अयोगात् ।
नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः
[प।पु। ४.२५.१६]
इति पाद्मे नामापराध-भञ्जन-स्तोत्रादौ
हरि-भक्ति-बलेनापि तत्-प्रवृत्ताव् अपराधापाताच् च ।
अपि चेत् सुदुराचारः [गीता ९.३०]
इति तु तद्-अनादर-दोष-पर एव,
न तु दुराचारता-विधान-परः,
क्षिप्रं भवति धर्मात्मा [गीता ९.३१]
इत्य् अनन्तर-वाक्ये दुराचारतापगमस्य श्रेयस्त्व-निर्देशाद् इति ॥