१७१

तेष्व् अधिकार-हेतून्1 आह द्वाभ्याम्—

निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु ।
तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् ॥
यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् ।
न निर्विण्णो नाति-सक्तो भक्ति-योगोऽस्य सिद्धि-दः ॥ [भा।पु। ११.२०.७-८]

इह एषां मध्ये निर्विण्णानाम् ऐहिक-पारलौकिक-विषय-प्रतिष्ठा-सुखेषु विरक्तानाम्, अत एव तत्-साधन-भूतेषु लौकिक-वैदिक-कर्मसु न्यासिनां, तानि त्यक्तवताम् इत्य् अर्थः । पद-द्वयेन दृढ-जात-मुमुक्षूणाम् अत्राभिप्रेतम् । तेषां ज्ञान-योगः सिद्धिद इत्य् उत्तरेणान्वयः । कामिनां तत्-तत्-सुखेषु रागिणाम्, अत एव तेषु तत्-साधन-भूतेषु कर्मसुअनिर्विण्ण-चित्तानां, तानि त्यक्तुम् असमर्थानां कर्म-योगः सिद्धिदः, तत्-सङ्कल्पानुरूप-फलदः ।

अथ ते वै विदन्त्य् अतितरन्ति न देव-मायाम् [भा।पु। २.७.४२] इत्य्-आदौ, तिर्यग्-जना अपि इत्य् अनेन भक्त्य्-अधिकारे कर्मादिवत् जात्य्-आदि-कृत-नियमातिक्रमात् । श्रद्धा-मात्रं हेतुर् इत्य् आह—यदृच्छया इति । यदृच्छया केनापि परम-स्वतन्त्र-भगवद्-भक्त-सङ्ग-तत्-कृपा-जात-मङ्गलोदयेन । यद् उक्तं, शुश्रूषोः श्रद्दधानस्य [भा।पु। १.२.१६] इत्य्-आदि ॥


  1. अधिकारि इन् एवेर्य्थिन्ग् बुत् ख अन्द् च। ↩︎