अथास्या अकिञ्चनाख्याया भक्तेः सर्वोर्ध्व-भूमिकावस्थितिम् अधिकारि-विशेष-निष्ठत्वं च दर्शयितुं प्रक्रियान्तरम् । तत्र पर-तत्त्वस्य वैमुख्य-परिहाराय यथा-कथञ्चित् साम्मुख्य-मात्रं कर्तव्यत्वेन लभ्यते । तच् च त्रिधा—
१। निर्विशेष-रूपस्य तदीय-ब्रह्माख्याविर्भावस्य ज्ञान-रूपम् । २। स-विशेष-रूपस्य च तदीय-भगवद्-आख्याविर्भावस्य भक्ति-रूपम् इति द्वयम् । ३। तृतीयं च तस्य द्वयस्यैव द्वारं कर्मार्पण-रूपम् इति ।
तद् एतत् त्रयं पुरुष-योग्यता-भेदेन व्यवस्थापयितुं लोके सामान्यतो ज्ञान-कर्म-भक्तीनाम् एवोपायत्वं, नान्येषाम् इत्य् अनुवदति—
योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया ।
ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् ॥ [भा।पु। ११.२०.६]
योगाः उपायाः । मया शास्त्र-योनिना । श्रेयांसि मुक्ति-त्रि-वर्ग-प्रेमाणि । अनेन भक्तेः कर्मत्वं च व्यावृत्तम् ॥