ततोऽस्या एव भक्तेः सर्व-शास्त्र-सारत्वम् आह—
श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।
क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ [भा।पु। ७.५.२३-२४]
श्रवण-कीर्तने तदीय-नामादीनां स्मरणं च । पाद-सेवनं परिचर्या । अर्चनं विध्य्-उक्त-पूजा । वन्दनं नमस्कारः । दास्यं तद्-दासोऽस्मीत्य् अभिमानम् । सख्यं बन्धु-भावेन तदीय-हिताशंसनम् । आत्म-निवेदनं गवाश्वादि-स्थानीयस्य स्व-देहादि-सङ्घातस्य तद्-एक-भजनार्थं विक्रय-स्थानीयं तस्मिन्न् अर्पणं, यत्र तद्-भरण-पालन-चिन्तापि स्वयं न क्रियते । उदाहृतानि चैतानि प्राचीनैः ।
श्री-विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥ [पद्यावली ५३]
इति नव-लक्षणानि यस्याः सा भगवति तद्-विषयिका । अद्धा साक्षाद्-रूपा, न तु कर्माद्य्-अर्पण-रूपा पारम्परिकी भक्तिर् इयम् । तत्रापि श्री-विष्णाव् एवार्पिता तद्-अर्थम् एवेदम् इति भाविता, न तु धर्मार्थादिष्व् अर्पिता । एवं-भूता चेत् क्रियते, तदा तेन कर्त्रा यद् अधीतंतद् उत्तमं मन्य इत्य् अर्थः । तथा च श्री-गोपाल-तापनी-श्रुतिः—
भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् ॥ [गो।ता।उ। १.१४]
अत्रनव-लक्षणा1 इति समुच्चयो नावश्यकः, एकेनैवाङ्गेन साध्याव्यभिचार-श्रवणात्, क्वचिद् अन्याङ्ग-मिश्रणं तु तथापि भिन्न-श्रद्धा-रुचित्वात् । ततो नव-लक्षणा-शब्देन भक्ति-सामान्योक्त्या तन्-मात्रानुष्ठानं विधीयत इति ज्ञेयम् । नव-लक्षणत्वं चास्या अन्येषाम् अप्य् अङ्गानां तद्-अन्तर्भावाद् उक्तम् ॥
॥ ७.५ ॥ श्री-प्रह्लादः स्व-पितरम् ॥ १६९ ॥
-
अत एव (य) ↩︎