अत एवाह—
नालं द्विजत्वं देवत्वम् ऋषित्वं वासुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता ॥
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् ॥ [भा।पु। ७.७.५१-५२]
अमलया निष्कामया । विडम्बनं नटन-मात्रम् । अतः सकाम-भक्तस्यापि भक्तेर् नटन-मात्र-तात्पर्येण भक्त्य्-अनुकरण-मात्रत्वात् । यथा परेषाम् अपि नटानां क्वचित् तद्-अनुकरणं तथैवेति ।
तत्र सकामत्वम् ऐहिकं पारलौकिकं चेति द्विविधम्। तत् सर्वम् एव निषिध्यते श्री-नागपत्नी-वचनादौ—न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यम् [भा।पु। १०.१६.३७] इत्य्-आदिना । तस्माद् वैवस्वत-मनु-पुत्रस्य पृषध्रस्य तु मुमुक्षोर् अपि एकान्तित्व-व्यपदेशो गौण एव बोद्धव्यः ।
मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर् वरैः ।
तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥ [भा।पु। ७.१०.२]
इत्य् अत्र श्री-प्रह्लाद-वाक्ये मुमुक्षा तु काम-त्यागेच्छैव ।
यदि दास्यसि मे कामान् वरांस् त्वं वरदर्षभ ।
कामानां हृद्य् असंरोहं भवतस् तु वृणे वरम् ॥ [भा।पु। ७.१०.७] इति वक्षमाणात् ।
भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः [भा।पु। ७.१०.१] इति श्री-नारदेन प्राग् उक्तत्वाच् च1 । एवं श्रीमद्-अम्बरीषस्य यज्ञ-विधानम् अपि लोक-सङ्ग्रहार्थकम् एव2 ज्ञेयम् । तम् उद्दिश्याप्य् एकान्त-भक्ति-भावेनेत्य् उक्तम् अस्ति । तत्र चैहिकं निष्कामत्वं भक्त्या जीविका-प्रतिष्ठाद्य्-उपार्जनं3 यत् तद्-अभाव-मयम् अपि बोद्धव्यम् । विष्णुं यो नोपजीवति [§२४७]इति गारुडे शुद्ध-भक्त-लक्षणात्4 ।
मौन-व्रत-श्रुत-तपो-ऽध्ययन-स्व-धर्म-
व्याख्या-रहो-जप-समाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्व् अजितेन्द्रियाणां
वार्ता भवन्त्य् उत न वात्र तु दाम्भिकानाम् ॥ [भा।पु। ७.९.४६]
इति श्री-प्रह्लाद-वाक्यवत् । मौनादय एवाजितेन्द्रियाणां वार्ता जीवनोपाया भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति न वा दम्भस्यानियत-फलत्वाद् इत्य् अर्थः । अत एवोक्तं—
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ [भा।पु। ६.१८.७४] इति ।
परं मोक्षम् अपि इति टीका च । तस्मात् साधूक्तं—नालं द्विजत्वम्[७.७.५१] इत्य्-आदि ॥
॥ ७.७ ॥ श्री-प्रह्लादोऽसुर-बालकान् ॥ १६८ ॥