१६७

एवम् एवाह—

नैवात्मनः प्रभुर् अयं निज-लाभ-पूर्णो
मानं जनाद् अविदुषः करुणो वृणीते ।
यद् यज् जनो भगवते विदधीत मानं
तच् चात्मने प्रति-मुखस्य यथा मुख-श्रीः ॥ [भा।पु। ७.९.११]

अयं प्रभुर् आत्मनो मानंपूजां जनान् निज-भक्तान् नवृणीते नेच्छति । तत्र हेतुः—निजस्य भक्तस्यैव लाभेन पूर्णः परम-सन्तुष्टः । हेत्व्-अन्तरं—करुणः पूजार्थं तत्-प्रयासादाव् असहिष्णुः । कथम्भूताज् जनात्? अविदुषः, पितुर् अग्रे बालकवत् तस्याग्रे न किञ्चिद् अपि जानतः । एषा स्वस्य जनैक-वर्गत्वेन दैन्योक्तिः । यद् वा, तद्-आवेशेनान्यत् किञ्चिद् अपि न जानत इत्य् अर्थः । उभयत्र पक्षेऽपि तच् च तस्य कारुण्य-हेतुर् इति भावः ।

तर्हि किं जनस् तस्य पूजां न कुरुते ? इत्य् आशङ्क्याह—यद् इति । स च जनोयद् यद् यं यं मानं भगवते विदधीत सम्पादयति, स सर्वोऽप्य् आत्मार्थम् एव । तत्-सम्मान-मात्रेणैव स्व-सम्माननाभिमननात् सुखं मन्यमानस् तन्-मानं करोत्य् एवेत्य् अर्थः।

तत्-सम्मान-मात्रेण स्व-सम्मानश् च तद्-एक-जीवनस्य तज्-जनस्य युक्त एवेति दृष्टान्तम् आह—यथा मुखे या शोभा क्रियते, तन्-मात्रम् एव प्रतिमुखस्य शोभायैभवति, नान्यद् इति ॥

॥ ७.९ ॥ श्री-प्रह्लादः श्री-नृसिंहम् ॥ १६७ ॥