१६६

तथैवोभयोः कामना-शून्यत्वं स्वयम् एवाह—

आशासानो न वै भृत्यः स्वामिन्य् आशिष आत्मनः ।
न स्वामी भृत्यतः स्वाम्यम् इच्छन् यो राति चाशिषः ॥
अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः ।
नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव ॥ [भा।पु। ७.१०.५-६]

स्पष्टम् ॥ ७.१० ॥ श्री-प्रह्लादः श्री-नृसिंहदेवम् ॥ १६६ ॥