१६५

व्याख्याते यथा-कथञ्चिद् भजन-सम्यग्-भजनावृत्ती । तद् एवं भगवद्-अर्पित-धर्मादि-साध्यत्वात् तां विनान्येषाम् अकिञ्चित्करत्वात्, तस्याः स्वत एव समर्थत्वात्, स्व-लेशेन स्वाभासादिनापि परमार्थ-पर्यन्त-प्रापकत्वात्, सर्वेषां वर्णानां नित्यत्वाच् च, साक्षाद् भक्ति-रूपं तत्-साम्मुख्यम् एवात्राभिधेयं वस्त्व् इति स्थितम् । इयम् एव केवलत्वाद् अनन्यताख्या ।

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥
येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥ [गीता ९.२२-२३]

इत्य् अव्यवहित-वाक्य-द्वयेऽन्वय-व्यतिरेकोक्त्यानन्यत्वं नाम ह्य् अन्योपासना-राहित्येन तद्-भजनम् उच्यते । इत्थम् एवाङ्गीकृतम्—अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् [गीता ९.३०] इत्य्-आदौ । तस्याश् च महा-दुर्बोधत्वं महा-दुर्लभत्वं चोक्तम्—धर्मं तु साक्षाद् भगवत्-प्रणीतं न वै विदुर् ऋषयो नापि देवाः [भा।पु। ६.३.१९] इत्य्-आदौ, येऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना [भा।पु। ३.१५.२४] इत्य्-आदौ च ।

तद् एवं तस्याः श्रवणादि-रूपायाः साक्षाद्-भक्तेः सर्व-विघ्न-निवारण-पूर्वक-साक्षाद्-भगवत्-प्रेम-फलदत्वे स्थिते परम-दुर्लभत्वे च सत्य् अन्य-कामनया च नाभिधेयत्वम् । तथा चोक्तं चतुर्थे—

तं दुराराध्यम् आराध्य सताम् अपि दुरापया ।
एकान्त-भक्त्या को वाञ्छेत् पाद-मूलं विना बहिः ॥ [भा।पु। ४.२४.५५] इति ।

तन्-मात्र-कामनायां च भक्तेर् एवाकिञ्चनत्वम् अकामत्वं च संज्ञापितम् ।

मत्तोऽप्य् अनन्तात् परतः परस्मात्
स्वर्गापवर्गाधिपतेर् न किञ्चित् ।
येषां किम् उ स्याद् इतरेण तेषाम्
अकिञ्चनानां मयि भक्ति-भाजाम् ॥ [भा।पु। ५.५.२५] इति श्री-ऋषभदेव-वाक्यात् ।

अकामः सर्व-कामो वा [२.३.१०]इत्य्-आदेश् च । तथेयम् एवैकान्तितेत्य् उच्यते—

एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः [भा।पु। ८.३.२०] इति गजेन्द्र-वाक्यम् ।
एवं प्रलोभ्यमानोऽपि वरैर् लोक-प्रलोभनैः ।
एकान्तित्वाद् भगवति नैच्छत् तान् असुरोत्तमः ॥
[भा।पु। ७.९.५५] इति नारद-वाक्याच् च ।

अत एवोक्तं गारुडे—

एकान्तेन सदा विष्णौ यस्माद् एव परायणाः ।
तस्माद् एकान्तिनः प्रोक्तास् तद्-भागवत-चेतसः ॥ [ग।पु। १.२३१.१४] इति ।

एषैवोपदिष्टा श्री-गीतोपनिषत्सु—

भक्त्या त्व् अनन्यया शक्य अहम् एवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥ [गीता ११.५४-५५]

मत्-कर्म श्रवण-कीर्तनादि । अहम् एव परमः साधनत्वेन साध्यत्वेन च यस्य । अत एव साधन-साध्यान्तर-सङ्ग-विवर्जित इति व्याख्येयम् । इमाम् एव भक्तिम् आह —

तस्माद् अर्थाश् च कामाश् च धर्माश् च यद्-अपाश्रयाः ।
भजतानीहयात्मानम् अनीहं हरिम् ईश्वरम् ॥ [भा।पु। ७.७.४८]

यद्-अपाश्रया यद्-अधीनाः । तं हरिम् इत्य् अन्वयः । अनीहया कामना-त्यागेन । अनीहं तथैव कामना-शून्यम् । इच्छाकाङ्क्षा-स्पृहेहा-तृट् इत्य् अमरः ॥

॥ ७.७ ॥ श्री-प्रह्लादोऽसुर-बालकान् ॥ १६५ ॥