१६३

तद् एवम् अधिकारि-विशेषं प्राप्यैव तत्-तत्-फलोदयो दृष्टः1 । यथैव पूर्वम् उदाहृतम् । यथा च जात-रुचिं प्राप्य—

तव विक्रीडितं कृष्ण नृणां परम-मङ्गलम् ।
कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः ॥ [भा।पु। ११.६.४४]

अत एवोक्तम्—

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत-पुण्यानां भक्तानां पुरुषोत्तम ॥ इति ॥

॥ ११.६ ॥ श्रीमद्-उद्धवः ॥ १६३ ॥


  1. द्रष्टव्यः (ज, य) ↩︎