अत एवाजामिलस्यान्यदापि पुत्रोपचारितं नारायण-नाम गृह्णतः—
प्रयाणे चाप्रयाणे च यन् नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥[प।पु। ६.१२८.२३८]
इति पाद्मे देव-द्युति-स्तोत्रानुसारेण ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नाम-धेयानि [भा।पु। ५.३.१४] इति पञ्चमोक्त-स्थित्आपि-शब्देन च प्रथम-नाम-ग्रहणाद् एव क्षीण-सर्व-पापस्यापि मरणे यन्-नाम-ग्रहणं, तत्-प्रशंसैव श्रूयते । तत्राप्य् आवृत्त्या—
अथैनं मापनयत कृताशेषाघ-निष्कृतम् ।
यद् असौ भगवन्-नाम म्रियमाणः समग्रहीत् ॥ [भा।पु। ६.२.१३] इत्य्-आदि ।
अशेष-शब्दोऽत्र वासना-पर्यन्तः । अघ-शब्दश् चापराध-पर्यन्त इति । अत्र मरणे सर्वेषां दैन्यादयोऽपि श्री-भगवत्-कृपातिशय-द्वारम् इति द्रष्टव्यम् ॥
॥ ६.१ ॥ श्री-विष्णु-दूताः यम-दूतान् ॥ १६२ ॥