यत् तु श्री-भरतस्य मृग-शरीरं त्यजतो नामानि गृहीत्वापि शरीरान्तर-प्राप्तिः, तत्रापि साक्षाद्-भाव-प्राप्तिर् एव तादृशानां हृदि सदाविर्भावात् । एवम् अजामिलस्य पूर्व-शरीर-स्थिताव् अपि ज्ञेयम् । ततो मरण-समये सकृद्-भजनस्यानन्तरम् एव कृतार्थत्व-प्रापणे व्यभिचारो न स्यात् । अत एवाह—
एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया ।
जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥[भा।पु। २.१.६]
टीका च—एतावान् एव जन्मनो लाभः फलम् । तम् आह—नारायण-स्मृतिर् इति । साङ्ख्यादिभिः साध्य इति तेषां स्वातन्त्र्येण लाभत्वं वारयति । अन्ते च स्मृतिः परो लाभः, न तन्-महिमा वक्तुं शक्यत इत्य् अर्थः॥ इत्य् एषा ॥
नाम-कौमुदी-कारैश् च “अन्तिम-प्रत्ययोऽभ्यर्हितः”[ना।कौ। ३] इत्य् उक्तम् ॥
॥ २.१ ॥ श्री-शुकः ॥ १६१ ॥