केचित् तु साधारणस्यैव प्रारब्धस्य तादृशेषु भक्तेषु प्राबल्यं तद्-उत्कण्ठा-वर्धनार्थं स्वयं भगवतैव क्रियत इति मन्यन्ते । सा च वर्णिता मृग-देहं प्राप्तस्य तस्य । तथैव श्री-नारदस्य पूर्व-जन्मनि जात-रतेर् अपि कषाय-रक्षणम् आह—
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति ।
अविपक्व-कषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भा।पु। १.६.२२]
स्पष्टम् । तद् एवम् अपराध-हेतुक-तद्-अभिनिवेशोदाहरणं गजेन्द्रादीनां विषयावस्थायां कार्यम्॥
॥ १.६ ॥ श्री-भगवान् ॥ १५८ ॥