१५७

अथ भगवन्-निष्ठा-च्यावक-वस्त्व्-अन्तराभिनिवेशो, यथा—

एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-लक्षणाच् च । [भा।पु। ५.८.२६] इति ।

श्री-भरतः । अत्रैवं चिन्त्यं—भगवद्-भक्त्य्-अन्तरायकं सामान्यंप्रारब्ध-कर्म न भवितुम् अर्हति, दुर्बलत्वात् । ततः प्राचीनापराधात्मकम् एव तल् लभ्यत इन्द्रद्युम्नादीनाम् इवेति ॥

॥ ५.८ ॥ श्री-शुकः ॥ १५७ ॥