१५६

अत एवाधुनिकेषु महानुभाव-लक्षणवत्सु तद्-दर्शनेऽपि1 नाविश्वासः कर्तव्यः । कुत्रचिद् भगवद्-उपासना-विशेषेणैव तादृशम् आनुषङ्गिकं फलम् उदयते । यथा—

यदैक-पादेन स पार्थिवात्मजस्2
तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही ।
ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता
तरीव सव्येतरतः पदे पदे ॥ [भा।पु। ४.८.७९]

अत्र सर्वात्मकतयैव विष्णु-समाधिना तादृक् फलम् उदितम् । एतादृश्य् उपासना चास्य भावि-ज्योतिर्-मण्डलात्मक-विश्व-चालन-पदोपयोगितयोदितेति ज्ञेयम् ॥

॥ ४.८ ॥ श्री-मैत्रेयः ॥ १५६ ॥


  1. तद्-अदर्शनेऽपि (ज, य) ↩︎

  2. पार्थिवार्भकस् (क, य) ↩︎