अथाश्रद्धा । दृष्टे श्रुतेऽपि तन्-महिमादौ विपरीत-भावनादिना विश्वासाभावः । यथा दुर्योधनस्यैव विश्वरूप-दर्शनादाव् अपि । अत एव यथा—आपन्नः संसृतिं घोरां यन् नाम विवशो गृणन् [भा।पु। १.१.१४] इत्य्-आदि-शौनकस्य, दन्ता गजानां कुलिशाग्र-निष्ठुराः [वि।पु। १.१७.४४] इति श्री-प्रह्लादस्यानुभव-सिद्धं, न तथा सर्वेषाम् । ईदृशम् आनुषङ्गिकं फलं तु शुद्ध-भक्तैर् भगवन्-महिम-ख्यापनेच्छा यदि स्यात्, तदैवेष्यते, न तु स्व-रक्षणाय स्व-महिम-दर्शनाय वा । यथैवोक्तं—
दन्ता गजानां कुलिशाग्र-निष्ठुराः
शीर्णा यद् एते न बलं ममैतत् ।
महा-विपत्-पात-विनाशनोऽयं
जनार्दनानुस्मरणानुभावः ॥ [वि।पु। १.१७.४४]
श्री-परीक्षित्-प्रभृतिभिस् तु तद् अपि नेष्टं, यथा—
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ [भा।पु। १.१९.१५]
॥ स्पष्टम् ॥ १.१९ ॥ राजा ॥ १५५ ॥