१५४

यथैव भगवद्-भक्ता अप्य् अकुटिलात्मनोऽज्ञाननुगृह्णन्ति, न तु कुटिलात्मनो विज्ञान् इति दृश्यते । यथा—

दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः ।
स्त्रियः शूद्रादयश् चैव तेऽनुकम्प्या भवादृशाम् ॥
विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः ॥ [भा।पु। ११.५.४-५]

टीका च—तत्र येऽज्ञास् ते भवद्-विधानाम् अनुग्राह्या इत्य् आह—दूर इति । ज्ञान-लव-दुर्विदग्धास् त्व् अचिकित्स्यत्वाद् उपेक्ष्या इत्य् आशयेनाह—विप्र इति ॥ इत्य् एषा ।

॥ ११.५ ॥ श्री-चमसो निमिम् ॥ १५४ ॥