अस्तु तावत् शुद्ध-भक्त्य्-आभासस्य वार्ता । अपराधत्वेन दृश्यमानोऽप्य् असौ महा-प्रभावो दृश्यते । यथा विष्णु-धर्मे भगवन्-मन्त्रेण कृत-निज-रक्षं विप्रं प्रति राक्षस-वाक्यं—
त्वाम् अत्तुम् आगतः क्षिप्तो रक्षया कृतया त्वया ।
तत्-संस्पर्शाच् च मे ब्रह्मन् साध्व् एतन् मनसि स्थितम् ॥
का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् ।
किन्त्व् अस्याः सङ्गमासाद्य निर्वेदं प्रापितः परम् ॥ इति ।
यथा वा, विष्णु-धर्माद्य्-उदाहृतायाः श्री-भगवद्-गृह-दीप-तैलं पिबन्त्याः कस्याश्चिन् मूषिकाया दैवतो मुखोद्धृत-वर्तौ दीपे समुज्ज्वलिते सति मुख-दाहेन मरणात् राज्ञीत्वं प्राप्य दीप-दानादि-लक्षण-भक्ति-निष्ठा-प्राप्तिर् अन्ते परम-पद-प्राप्तिश् च । यथा च ब्रह्माण्ड-पुराणे जन्माष्टमी-माहात्म्ये कृत-जन्माष्टमीकाया दास्या दुःसङ्गेनापि कस्यचित् तत्-फल-प्राप्तिः । तथा च बृहन्-नारदीये तादृश-दुष्ट-कार्यार्थम् अपि भगवन्-मन्दिरं मार्जयित्वा कश्चिद् उत्तमां गतिम् अवाप । न त्व् ईदृशत्वं ब्रह्म-ज्ञानस्यापि ।
यथोक्तं ब्रह्म-वैवर्ते—
विषय-स्नेह-संयुक्तो ब्रह्माहम् इति यो वदेत् ।
गर्भ-वास-सहस्रेषु पच्यते पापकृन् नरः ॥ इति ।
अथ श्री-भगवद्-वशीकारितायाम् अपि सकृद् अल्प-प्रयासात्मिकाया अपि भक्तेः कारणता दृश्यते। यथा ब्रह्म-पुराणे श्री-शिव-वाक्यम्—
दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् ।
अर्चितश् चार्चयेन् नित्यं स देवो द्विज-पुङ्गवाः ॥ इति ।
यथा च श्री-विष्णु-धर्मे श्री-नारद-वाक्यम्—
तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ इति ।
तद् ईदृशं माहात्म्य-वृन्दं न प्रशंसा-मात्रम् अजामिलादौ प्रसिद्धत्वात् । दर्शिताश् च न्यायाः श्री-भगवन्-नाम-कौमुद्य्-आदौ । तथैव नाम्न्य् अर्थवाद-कल्पनायां दोषोऽपि श्रूयते, तथार्थ-वादो हरि-नाम्नि [प।पु। ३.२५.१६] इति हि पाद्मे नामापराध-गणने ।
अर्थ-वादं हरेर् नाम्नि सम्भावयति यो नरः ।
स पापिष्ठो मनुष्याणां निरये पतति स्फुटम् ॥ इति कात्यायन-संहितायाम् ।
मन्-नाम-कीर्तन-फलं विविधं निशम्य
न श्रद्दधाति मनुते यद् उतार्थ-वादम् ।
यो मानुषस् तम् इह दुःख-चये क्षिपामि
संसार-घोर-विविधार्ति-निपीडिताङ्गम् ॥
इति ब्रह्म-संहितायां बोधायनं प्रति श्री-परमेश्वरोक्तौ । ततोऽन्तर्भूत-नामानुसन्धानेष्व् अन्येषु तद्-भजनेषु च सुतराम् एवार्थ-वादे दोषोऽवगम्यते । तद् एवं यथार्थ एव तन्-माहात्म्ये सत्य् अपि यत्र सम्प्रति तद्-भजने फलोदयो न दृश्यते, कुत्रचिच् छास्त्रे च पुरातनानाम् अप्य् अन्यथा श्रूयते तत्र नामार्थ-वाद-कल्पना-वैष्णवानादरादयो दुरन्ता अपराधा एव प्रतिबन्ध-कारणं वक्तव्यम् । अत एवोक्तं श्री-शौनकेन—
तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भा।पु। २.३.२४] इति ।
यथा प्रायेणाधुनिकानाम् । यथा वा,
ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।
स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः ॥ [भा।पु। १०.६४.२५] इति ।
तद्-उक्त-रीत्याध्यवसित-भक्तेर् अपि नृगस्य, जिह्वा न वक्ति [भा।पु। ६.३.२९] इत्य्-आदि-यम-वाक्य-विरुद्धं यम-लोक-गमनं प्राप्तवतो विना चार्थवाद-कल्पनामयं भावं श्रुत-शास्त्रस्यापि तस्य सत्यां तादृश-माहात्म्यायां भक्तौ श्रीमद्-अम्बरीषादिवत् सेवाग्रहं परित्यज्य दान-कर्माग्रहो न स्यात् । तादृशापराधे भक्ति-स्तम्भश् च श्रूयते । यथा पाद्मे नामापराध-भञ्जन-स्तोत्रे—
नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा
शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् ।
तच् चेद् देह-द्रविण-जनता-लोभ-पाषण्ड-मध्ये
निक्षिप्तं स्यान् न फल-जनकं शीघ्रम् एवात्र विप्र ॥ [प।पु। ४.२५.२४]
देहादि-लोभार्थं ये पाषण्डा गुर्व्-अवज्ञादि-दशापराध-युक्तास् तन्-मध्य इत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये—
पूजितो भगवान् विष्णुर् जन्मान्तर-शतैर् अपि ।
प्रसीदति न विश्वात्मा वैष्णवे चावमानिते ॥
स्कान्द एवान्यत्र मार्कण्डेय-भगीरथ-संवादे—
दृष्ट्वा भागवतं दूरात् सम्मुखे नोपयाति हि ।
न गृह्णाति हरिस् तस्य पूजां द्वादश-वर्षिकीम् ॥
दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् ।
देहिनस् तस्य पापस्य न च वै क्षमते हरिः ॥ इति ।
एवं बहून्य् एवापराधान्तराण्य् अपि दृश्यन्ते । एवम् एव श्री-विष्णु-पुराणे शत-धनुर् नाम्नो राज्ञो भगवद्-आराधन-तत्परस्यापि वेद-वैष्णव-निन्दकाल्प-सम्भाषयैव कुक्कुरादि-योनि-प्राप्तिर् उक्ता । अतः शुश्रूषोः श्रद्दधानस्य [भा।पु। १.२.१६] इत्य्-आदौ, आवृत्तिर् असकृद्-उपदेशात् [वे।सू। ४.१.१] इत्य्-आदौ च पुरुषाणां प्रायः सापराधत्वाभिप्रायेणैवावृत्ति-विधानम् । सापराधानाम् आवृत्त्य्-अपेक्षा चोक्ता पाद्मे नामापराध-भञ्जन-स्तोत्रे नामोपलक्ष्य—
नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्ति-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ [प।पु। ४.२५.२३] इति ।
एतद्-अपेक्षयैव त्रैलोक्य-सम्मोहन-तन्त्रादाव् अष्टादशाक्षरादेर् आवृत्ति-विधानम्, यथा—
इदानीं शृणु देवि त्वं केवलस्य मनोर् विधिम् ।
दश-कृत्वो जपेन् मन्त्रम् आपत्-कल्पेन मुच्यते ॥
सहस्र-जप्तेन तथा मुच्यते महतैनसा ।
अयुतस्य जपेनैव महा-पातक-नाशनम् ॥इत्य्-आदि ।
तथा ब्रह्म-वैवर्ते नामोपलक्ष्य—
हनन् ब्राह्मणम् अत्यन्तं कामतो वा सुरां पिबन् ।
कृष्ण कृष्णेत्य् अहो-रात्रं सङ्कीर्त्य शुचिताम् इयात् ॥ इत्य्-आदि ।
अत्रापराधालम्बनत्वेनैव वर्तमानानां पाप-वासनानां सहैवापराधेन नाश इति तात्पर्यम् । एतादृश-प्रतिबन्धापेक्षयैवोक्तं विष्णु-धर्मे—
रागादि-दूषितं चित्तं नास्पदं मधुसूदने ।
बध्नाति न रतिं हंसः कदाचित् कर्दमाम्बुनि ॥
न योग्या केशवं स्तोतुं वाग् दुष्टा चानृतादिना ।
तमसो नाशनायालं नेन्दोर् लेखा घनावृता ॥ इति ।
सिद्धानाम् आवृत्तिस् तु प्रतिपदम् एव सुख-विशेषोदयार्था । असिद्धानाम् आवृत्ति-नियमः फल-पर्याप्ति-पर्यन्तः, तद्-अन्तरायेऽपराधावस्थिति-वितर्कात् । यतः (१) कौटिल्यम्, (२) अश्रद्धा, (३) भगवन्-निष्ठा-च्यावक-वस्त्व्-अन्तराभिनिवेशः, (४) भक्ति-शैथिल्यं, (५) स्व-भक्त्य्-आदि-कृत-मानित्वम् इत्य् एवम्-आदीनि महत्-सङ्गादि-लक्षाण-भक्त्यापि निवर्तयितुं दुष्कराणि चेत्, तर्हि तस्यापराधस्यैव कार्याणि, तान्य् एव च प्राचीनस्य तस्य लिङ्गानि । अत एव कुटिलात्मनाम् उत्तमम् अपि नानोपचारादिकं नाङ्गीकरोति भगवान्, यथा दूत्य-गतो दुर्योधनस्य । आधुनिकानां च श्रुत-शास्त्राणाम् अपराध-दोषेण श्री-भगवति श्री-गुरौ तद्-भक्तादिषु चान्तरानादरादाव् अपि सति बहिस् तद्-अर्चनाद्य्-आरम्भः कौटिल्यम्1 । अत एवाकुटिल-मूढानां भजनाभासादिनापि कृतार्थत्वम् उक्तम् । कुटिलानां तु भक्त्य्-अनुवृत्तिर् अपि न भवतीति2 स्कान्दे श्री-पराशर-वाक्ये दृश्यते—
न ह्य् अपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।
भक्तिर् भवति गोविन्दे कीर्तनं स्मरण ं तथा ॥ इति ।
एतद्-अपेक्षयैवोक्तं विष्णु-धर्मे—
सत्यं शतेन विघ्नानां सहस्रेण तथा तपः ।
विघ्नायुतेन गोविन्दे नॄणां भक्तिर् निवार्यते ॥ इति ।
अत एवाह—
तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः ॥ [भा।पु। ३.१९.३६]
स्पष्टम् ॥ ३.१९ ॥ श्री-सूतः ॥ १५३ ॥