तथा भक्त्य्-आभासस्यापि सर्व-पाप-क्षय-पूर्वक-श्री-विष्णु-पद-प्रापकत्वं, यथा बृहन्-नारदीये कोकिला-मानिनोर् मदिरोन्मत्तयोर् धृत-चीर-खण्ड-दण्डयोर् जीर्ण-भगवन्-मन्दिरे नृत्यतोर् ध्वजारोपण-फल-प्राप्त्या तादृशत्वं जातम् । तथा व्याध-हतस्य पक्षिणः कुक्कुर-मुख-गतस्य तत्-पलायन-वृत्त्या भगवन्-मन्दिर-परिक्रमण-फल-प्राप्त्या तादृशत्व-प्राप्तिर् इति । क्वचित् तत्र महा-भक्ति-प्राप्तिश् च, यथा बृहन्-नारसिंह-पुराणे श्री-प्रह्लादस्य । तस्य प्राग्-जन्मनि वेश्यया सह विवादेन श्री-नृसिंह-चतुर्दश्यां दैवाद् उपवासः सम्पन्नो जागरणं चेति । तथा चाह—
यस्यावतार-गुण-कर्म-विडम्बनानि
नामानि येऽसु-विगमे विवशा गृणन्ति ।
तेऽनेक-जन्म-शमलं सहसैव हित्वा
संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ [भा।पु। ३.९.१५]
असु-विगमेऽपीति तदानीन्तन-मात्रत्वम् अशुद्ध-वर्णत्वं1 च व्यञ्जितम् । विवशा इति तद्-इच्छां विनापि केनचित् कारणान्तरेणापीत्य् अर्थः । वशकान्तौ इत्य् अमरः । तादृश-शक्तित्वे हेतुम् आह—अवतारेति । अवतारादि-सदृशानि तत्-तत्-तुल्य-शक्तीनीत्य् अर्थः । तत्र अवतार-विडम्बनानि नृसिंहेत्य्-आदीनि, गुण-विडम्बनानि भक्त-वत्सलेत्य्-आदीनि, कर्म-विडम्बनानिगोवर्धन-धरेत्य्-आदीनि च2 ॥3
॥ ३.९ ॥ ब्रह्मा श्री-गर्भोदक-शायिनम् ॥ १५२ ॥