१५१

अत एवोक्तं श्री-विष्णु-धर्मोत्तरे—

जीवितं विष्णु-भक्तस्य वरं पञ्च दिनानि वै ।
न तु कल्प-सहस्राणि भक्ति-हीनस्य केशवे ॥ इति ।

अतो यद् अत्र तृतीये [भा।पु। ३.३१.१२-२१] गर्भ-स्थस्य जीवस्य स्तुतिः श्रूयते, तस्यैव संसारोऽपि वर्ण्यते । तत्रोच्यते—जात्य्-एकत्वेनैक-वर्णनम् इति वस्तुतस् तु कश्चिद् एव जीवो भाग्यवान् भगवन्तं स्तौति । स च निस्तरत्य् अपि । न तु सर्वस्यापि भगवज्-ज्ञानं भवति। तथा च नैरुक्ताः1 पठन्ति—नवमे सर्वाङ्ग-सम्पूर्णोभवति [नि। १३.१९] इति पठित्वा, मृतश् चाहं पुनर् जातो जातश् चाहं पुनर् मृतः इत्य्-आदितद्-भावना-पाठान्तरं—

अवाङ्-मुखः पीड्यमानो जन्तुभिश् च समन्वितः ।
साङ्ख्य-योगं समभ्यस्येत् पुरुषं वा पञ्चविंशकम् ॥
ततश् च दशमे मासि प्रजायते इत्य्-आदि ।

अत्र पुरुषं वा इति वा-शब्दात् कस्यचिद् एव भगवज्-ज्ञानम् इति गम्यते ।

सर्वास्व् अप्य् अवस्थासु भक्तेः समर्थत्वं वर्णितम्2 । भेदेऽप्य् एकवद्-वर्णनम् अन्यत्रापि दृश्यते । तृतीये यथा पाद्म-कल्प-सृष्टि-कथनेऽपि श्री-सनकादीनां सृष्टिः कथ्यत इति । टीकायां चब्रह्म-कृत-सृष्टि-मात्र-कथन-साम्येनैकीकृत्योक्तिर् इयम् इति योजितं, श्री-वराहावतारवच् च । तत्र प्रथम-मन्वन्तरस्यादौ पृथिवी-मज्जने ब्रह्म-नासिकातोऽवतीर्णः श्री-वराहः, ताम् उद्धरन् हिरण्याक्षेण संग्रामं कृतवान् इति वर्ण्यते । हिरण्याक्षश् च षष्ठ-मन्वन्तरावसान-जात-प्राचेतस-दक्ष-कन्याया दितेर् जातः । तस्मात् तथा-वर्णनं तद्-अवतार-मात्रत्व-पृथिवी-मज्जन-मात्रत्वैक्य-विवक्षयैव घटते, तद्वद् अत्रापीति ।कश्चिद् एवान्यो जन्योजीवः3 स्तौत्य् अन्यः संसरतीत्य् एव मन्तव्यम् ।

अत्र पूर्ववत् परम-गति-प्राप्तौ भक्तेः परम्परा-कारणत्वं च दृश्यते । बृहन्-नारदीये ध्वजारोपण-माहात्म्ये—

यतीनां विष्णु-भक्तानां परिचर्या-परायणैः ।
ईक्षिता अपि गच्छन्ति पापिनोऽपि परां गतिम् ॥ [ना।पु। १.२०.७३] इति ।

श्री-विष्णु-धर्मे—

कुलानां शतम् आगामि समतीतं तथा शतम् ।
कारयन् भगवद्-धाम नयत्य् अच्युत-लोकताम् ॥
ये भविष्यन्ति येऽतीता आकल्पात् पुरुषाः कुले ।
तांस् तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥ इति ।

दूतान् प्रति यमाज्ञा चेयम्—

येनार्चा भगवद्-भक्त्या वासुदेवस्य कारिता ।
नवायुतं तत्-कुलजं भवतां शासनातिगम् ॥ इति ।

यथाह—

त्रिः-सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।
यत् साधोऽस्य कुले जातो भवान् वै कुल-पावनः ॥ [भा।पु। ७.१०.१८]

त्रिः-सप्तभिः प्राचीन-कल्प-गत-तदीय-पूर्व-जन्म-सम्बन्धिभिः पितृभिः सह। अस्मिन् जन्मनि हिरण्यकशिपु-कश्यप-मरीचि-ब्रह्माण एव तत्-पितर इति ॥4

॥ ७.१० ॥ श्री-नृसिंहः प्रह्लादम् ॥ १५१ ॥


  1. अत्र क्रम-सन्दर्भे (३.३१.११) “तथा चेति नैरुक्त-मते च त्रिविधा जीवा [जना] लभ्यन्ते—एके पूर्व-पूर्व-जन्म-मात्रं स्मरन्ति । एके साङ्ख्य-योगादिकम् अभ्यस्यन्ति । एके तु परम-पुरुषम् इति यथोक्तं तत्रैव तैः” इत्य् अधिक-पाठः प्राप्यते झ-ग्रन्थेऽपि। ↩︎

  2. अत्र “चतुःश्लोकी-व्याख्यायाम्” इत्य् अधिक-पाठः य-पुस्तके। ↩︎

  3. इन् प्, नोत् इन् य ओर् र। ↩︎

  4.  ↩︎