तथा सकृद्-भजनेनैव सर्वम् अप्य् आयुः सफलम् इत्य् उदाहृतम् एव श्री-शौनक-वाक्येन आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ [भा।पु। २.३.१७] इत्य्-आदि-ग्रन्थेन । एवं भक्त्य्-आभासेनाप्य् अजामिलादौ पापघ्नत्वं च दृश्यते । तथा सर्व-कर्मादि-विध्वंस-पूर्वक-परम-गति-प्राप्ताव् अपि स्वल्पायासेनैव1 भक्तेः कारणत्वं च श्रूयते । लघु-भागवते—
वर्तमानं च यत् पापं यद् भूतं यद् भविष्यति ।
तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात्2 ॥ इति ।
तथैव च तत्र यथा-कथञ्चित् तद्-भक्ति-सम्बन्धस्य कारणत्वं दृश्यते । ब्रह्म-वैवर्ते—
स समाराधितो देवो मुक्तिकृत् स्याद् यथा तथा ।
अनिच्छयापि हुत-भुक् संस्पृष्टो3 दहति द्विजाः ॥ इति ।
स्कान्दे उमा-महेश्वर-संवादे—
दीक्षा-मात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै ।
किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं नराः ॥इति ।
बृहन्-नारदीये—
अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते ।
न तेषां भव-बन्धस् तु कदाचिद् अपि जायते ॥ [ना।पु। १.३६.५८] इति ।
पाद्मे देव-द्युति-स्तुतौ—
सकृद् उच्चारयेद् यस् तु नारायणम् अतन्द्रितः ।
शुद्धान्तःकरणो भूत्वा निर्वाणम् अधिगच्छति ॥ इति ।
तथान्यत्र—
सम्पर्काद् यदि वा मोहाद् यस् तु पूजयते हरिम् ।
सर्व-पाप-विनिर्मुक्तः प्रयाति परमं पदम् ॥
इतिहास-समुच्चये श्री-नारद-पुण्डरीक-संवादे च—
ये नृशंसा दुराचाराः पापाचार-रताः सदा ।
तेऽपि यान्ति परं धाम नारायण-पदाश्रयाः ॥
लिप्यन्ते न च पापेन वैष्णवा वीत-कल्मषाः ।
पुनन्ति सकलान् लोकान् सहस्रांशुर् इवोदितः ॥
जन्मान्तर-सहस्रेषु यस्य स्यान् मतिर् ईदृशी ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥
स याति विष्णु-सालोक्यं पुरुषो नात्र संशयः ।
किं पुनस् तद्-गत-प्राणाः पुरुषाः संयतेन्द्रियाः ॥
अत एव—
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥
इति रामायणे श्री-रामचन्द्र-वाक्यं च,
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै4 ददाम्य् एतद् व्रतं हरेः ॥
इति च गरुड-पुराणे । तथा चाह—
आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ [भा।पु। १.१.१४] इति।
स्पष्टम् ॥ १.१ ॥ श्री-शौनकः ॥ १४९ ॥