१४८

तथास्तु तस्याः साक्षाद् भक्तेः पर-धर्मत्वादिकम् । भगवद्-अर्पण-सिद्ध-तद्-अनुगतिकस्य लौकिक-कर्मणोऽपि पर-धर्मत्वम् उदाहरिष्यते—यो यो मयि परे धर्मः [भा।पु। ११.२९.२१] इत्य्-आदौ । तथा पाप-घ्नत्वादिकं तस्याः श्रवणादिनापि भवतीत्य् उक्तं—श्रुतोऽनुपठितो ध्यातः [भा।पु। ११.२.१२] इत्य्-आदौ । पाद्मे माघ-माहात्म्ये देव-दूत-वाक्यं च—

प्राहास्मान् यमुना-भ्राता सादरं हि पुनः पुनः ।
भवद्भिर् वैष्णवस् त्याज्यो विष्णुं चेद् भजते नरः ॥
वैष्णवो यद्-गृहे भुङ्क्ते येषां वैष्णव-सङ्गतिः ।
तेऽपि वः परिहार्याः स्युस् तत्-सङ्ग-हत-किल्बिषाः ॥ इति ।

बृहन्-नारदीये यज्ञमाल्य्-उपाख्यानान्ते—

हरि-भक्ति-पराणां तु सङ्गिनां सङ्ग-मात्रतः ।
मुच्यते सर्व-पापेभ्यो महा-पातकवान् अपि ॥ [ना।प। १.३६.६१] इति ।

ततः सुतराम् एवेदम् आदिदेश—

जिह्वा न वक्ति भगवद्-गुण-नामधेयं
चेतश् च न स्मरति तच्-चरणारविन्दम् ।
कृष्णाय नो नमति यच्-छिर एकदापि
तान् आनयध्वम् असतोऽकृत-विष्णु-कृत्यान् ॥ [भा।पु। ६.३.२९]

आस्तां तावत् तान् आनयध्वम् [भा।पु। ६.३.२८] इत्य्-आदिकेनैतत्-पूर्व-द्वितीय-पद्येनोक्तानां मुकुन्द-पादारविन्द-विमुखानाम् आनयन-वार्ता । तथा ते देव-सिद्धः [भा।पु। ६.३.२७] इत्य्-आदिकेन तत्-पूर्व-तृतीय-पद्येनोक्तानां देव-सिद्ध-परिगीत-पवित्र-गाथानां साधूनां समदृशां भगवत्-पराणां निकट-गमन-निषेध-वार्तापि । यद् यस्य जिह्वापि श्री-भगवतो गुणं च नामधेयंचैकदा जन्म-मध्ये यदा कदाचिद् अपि न वक्ति । जिह्वाया अभावे चेतश्तच्-चरणारविन्दम् एकदापि न स्मरति । चेतसो विक्षिप्तत्वे शिरश् च कृष्णाय कृष्णं लक्षीकृत्य नो नमति,

शठेनापि नमस्कारं कुर्वतः शार्ङ्ग-धन्विने ।
शत-जन्मार्जितं पापं तत्-क्षणाद् एव नश्यति ॥ [स्क।पु। ५.३.१५७.१२]

इति स्कान्दोक्त-महिमानं नमस्कारं न करोति, तान् आनयध्वम् । तत्र हेतुः—असतः । असत्त्वे हेतुः—अकृत-विष्णु-कृत्यान् । यथा स्कान्दे रेवा-खण्डे श्री-ब्रह्मोक्तौ—

स कर्ता सर्व-धर्माणां भक्तो यस् तव केशव ।
स कर्ता सर्व-पापानां यो न भक्तस् तवाच्युत ॥
पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे ।
निःशेष-धर्म-कर्ता वाप्य् अभक्तो नरके हरे ।
सदा तिष्ठति भक्तस् ते ब्रह्महापि विमुच्यते ॥

पाद्मे च—

मन्-निमित्तं कृतं पापम् अपि क्षेमाय1 कल्पते ।
माम् अनादृत्य धर्मोऽपि पापं स्यान् मत्-प्रभावतः ॥इति ।

युक्तं चैतत्, श्रवणं कीर्तनं चास्य [भा।पु। ७.११.११] इत्य्-आदिना, मुख-बाहूरु-पादेभ्यः [भा।पु। ११.५.२] इत्य्-आदिना, सर्वेषां मद्-उपासनम् [भा।पु। ११.१८.४३] इत्य्-आदिना, सर्व-विधि-निषेधाः स्युः इत्य्-आदिना च परम-नित्यत्वादि-प्रतिपादनात् । एषां कीर्तनादीनां त्रयाणाम् अपि सुकराणाम् अभावे परेषां सुतराम् एवाभावो भवेद् इति सामान्येनैव विष्णु-कृत्य-रहितत्वम् उक्तम् । जिह्वादीनां करण-भूतानाम् अपि कर्तृत्वेन निर्देशः पुरुषानिच्छयापि यथा-कथञ्चित् कीर्तनादिकम् आदत्ते । चरणारविन्दम् इति विशेषाङ्ग-निर्देशः श्री-यमस्य भक्ति-ख्यापक एव, न तु तन्-मात्र-स्मरण-नियामकः । अत्राभक्तानाम् आनयनेन भक्तानाम् अनानयनम् एव विधीयते । आनयनस्योत्सर्ग-सिद्धत्वात् वैवस्वतं संयमनं प्रजानाम् इति श्रुतेः ।

सकृन् मनः कृष्ण-पदारविन्दयोर्
निवेशितं तद्-गुण-रागि यैर् इह ।
न ते यमं पाश-भृतश् च तद्-भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ [भा।पु। ६.१.१९]

इत्य् अत्र तद्-गुण-रागीति विशेषणं तु तेषां तद्-दृष्टि-पथ-गमन-सामर्थ्यस्यापि यद् घातकं, तादृश-तत्-स्मरणस्य प्रभाव-विशेषम् एव बोधयतीति ज्ञेयम् । यथैव नारसिंहे—

अहम् अमर-गणार्चितेन धात्रा
यम इति लोक-हिताहिते नियुक्तः ।
हरि-गुरु-विमुखान् प्रशास्मि मर्त्यान्
हरि-चरण-प्रणतान् नमस्करोमि ॥ [नृ।पु। ९.२] इति ।

तथैवामृत-सारोद्धारे स्कान्द-वचनम्—

न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः ।
शक्तास् तु निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥[स्क।पु। २.३.३.१५] इति ॥

॥ ६.३ ॥ श्री-यमस् तद्-दूतान् ॥ १४८ ॥


  1. धर्माय ↩︎