१४७

तथा मनसोऽप्य् अगोचर-फल-दाने श्री-ध्रुव-चरितं प्रमाणं, परम-भक्ति-संवलित-स्व-लोक-दानात् ।

तद्-वशीकारित्वं तूदाहृतं—न साधयति मां योगो [भा।पु। ११.१४.२०] इत्य्-आदि । तथा तत्-पद्यान्ते—

भक्त्याहम् एकया ग्राह्यः
श्रद्धयात्मा प्रियः सताम् [भा।पु। ११.१४.२१] इति ।

अत्रैवं विवेचनीयम्—यद्यप्य् अस्य वाक्यस्यैकादश-चतुर्दशाध्याय-प्रकरणे साध्य-साधन-भक्त्योर् अविविक्ततयैव महिम-निरूपणम् इति साधन-परत्वं दुर्निर्णेयं, तथापि फल-भक्ति-महिम-द्वारापि साधन-महिम-परत्वम् एव, यत्रेदृशम् अपि फलं भवतीति, वदन्ति कृष्ण श्रेयांसि [भा।पु। ११.१४.१] इत्य्-आदि-प्रश्नम् आरभ्य साधनस्योपक्रान्तत्वात्, यथा यथात्मा परिमृज्यतेऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः [भा।पु। ११.१४.२६] इत्य्-आदिना तस्यैवोपसंहृतत्वाच् च । विशेषतस् तु तत्र बाध्यमानोऽपि मद्-भक्तो [भा।पु। ११.१४.१८] इत्य्-आदिकं धर्मः सत्य-दयोपेतः [भा।पु। ११.१४.२२] इत्य्-आद्य्-अन्तं तदीयम् अन्तः-प्रकरणं1 प्राय-साधन-महिम-परम् एव । तत्र बाध्यमानोऽपि इति पद्यं साध्य-भक्तौ जातायां बाध्यमानत्वायोगात्—

दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावसथान् ॥ [भा।पु। १०.८७.३५] इत्य् उक्तेः ।
विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः ।
वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥

इति विष्णु-पुराणाच् च तन्-महिम-परत्वेन गम्यते । अत्रैव तद् वक्ष्यते—

कथं विना रोम-हर्षं द्रवता चेतसा विना ।
विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ [भा।पु। ११.१४.२३] इत्य् अनेन,

मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४] इति कैमुत्य-वाक्येन च साध्य-भक्तेः संस्कार-हारित्वम्। ततो विषया एव बाध्यमाना भवन्तीति ।

अथ यथाग्निः सुसमृद्धार्चिः [भा।पु। ११.१४.१९] इति पद्यं नामाभासादेः सर्व-पाप-क्षय-कारित्व-प्रसिद्धेस् तत्-परम् । अथ न साधयति मां योगः [भा।पु। ११.१४.२०] इत्य् एतत् सार्ध-पद्यं योगादीनां साधन-रूपाणां प्रतियोगित्वेन निर्दिष्टत्वात्, श्रद्धा-सहायत्वेन विधानाच् च तत्-परम् । साध्यायां श्रद्धोल्लेखः पुनर्-उक्त इति । यद्यपि फल-भक्ति-द्वारैव तद्-वशीकारित्वं तस्याः, तथाप्य् अत्र साधक-रूपाया मुख्यत्वेन प्राप्तत्वात् तत्रैवोदाहृतम् ।

किं वा—अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इति न्यायेन नावशः सन् प्रेमाणं ददातीति तस्या एव साक्षात् तद्-गुणकत्वं ज्ञेयम् ।

अथ धर्मः सत्य-दयोपेतः [११.१४.२१] इति पद्यं च धर्मादि-साधन-प्रतियोगित्वेन निर्देशात्, साधन-भक्तेर् एवान्यत्रापि तत्-फलतयोदाहृतत्वाच् च तत्-परम् । यत् तु कथं विना [११.१४.२३] इत्य्-आदिकं तच् च साधन-भक्ति-फलस्य शोधकत्वातिशय-प्रतिपादनेन तत्-परम् इति । तस्मात् साध्व् एव बाध्यमानोऽपि [११.१४.१८] इत्य्-आदि-पद्यानि तत्-प्रसङ्गे दर्शितानि ॥

॥ ११.१४ ॥ श्री-भगवान् ॥ १४७ ॥


  1. उक्त-प्रकरणं (य), मध्य-प्रकरणम् (झ) ↩︎