श्री-भगवत्-प्रापकत्वम् आह—
भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् ।
सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥ [भा।पु। ११.१८.४५]
टीका च—महेश्वरत्वे हेतुः—सर्वोत्पत्त्य्-अप्ययं सर्वस्योत्पत्त्य्-अप्ययौ यस्मात्, तम् । अत एव तत्-कारणं मांब्रह्म ब्रह्म-स्वरूपं वैकुण्ठ-निवासिनम् । यद् वा, ब्रह्मणो वेदस्य कारणं माम् उपयाति सामीप्येन प्राप्नोति॥ इत्य् एषा । श्री-गीतासु च पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [गीता ८.२२] इति ॥
॥ ११.१८ ॥ श्री-भगवान् ॥ १४६ ॥