एवं भक्ति-रूपायास् तच्-छक्तेर् जीवेऽभिव्यक्तौ भगवान् एव कारणम् । तत्-तद्-इन्द्रियादि-प्रवृत्तौ च स एवेति तस्मिंस् तया जीवस्योपकारकाभासत्वम् एव । तथापि भक्तानुरज्यद्-आत्मत्वे भगवतः स्व-कृपा-प्राबल्यम् एव कारणम् इति वदन् पूर्वार्थम् एव साधयति—
किं वर्णये तव विभो यद्-उदीरितोऽसुः
संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि ।
स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च
स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः ॥ [भा।पु। १२.८.४०]
हे विभो!तव किम् अहं वर्णये? त्वत्-कृपालुतायाः कियन्तम् अंशं वर्णयेयम् ? इत्य् अर्थः । यतो येन त्वयैव उदीरितः प्रेरितोऽसुः प्राणः संस्पन्दन्ते प्रवर्तते, तम् असुम् अनु च वाग्-आदयः स्पन्दन्ति। तत्र हेतुः—वै अन्वय-व्यतिरेकाभ्यां श्रोत्रस्य श्रोत्रम् [बृ।आ।उ। ४.४.१८] इत्य्-आदि-श्रुतिभ्यश् च तत्प्रसिद्धम् इत्य् अर्थः । न केवलं प्राकृतानां तनु-भृतां किन्तु अज-शर्वयोश् च । अतः स्वस्य ममापि तथैव । एवं यद्यपि न क्वचिद् अपि कस्यापि स्वातन्त्र्यम्, तथापि दारु-यन्त्रवत् प्रवर्तितैर् अपि वाग्-आदिभिर् भजतां पुंसां भावेन स्व-दत्तयैव भक्त्या बन्धुर् असि इति ॥
॥ १२.८ ॥ मार्कण्डेयः श्री-नर-नारायणौ ॥ १४४ ॥