अत एव तथाभूतत्वेनात्मारामस्य पूर्ण-कामस्यापि तस्य क्षुद्र-गुण-वस्त्व् अपि परितोषाय कल्पत इति दृष्टान्तेनाह—
तत्रोपनीत-बलयो रवेर् दीपम् इवादृताः ।
आत्मारामं पूर्ण-कामं निज-लाभेन नित्यदा ॥
प्रीत्य्-उत्फुल्ल-मुखाः प्रोचुर् हर्ष-गद्गदया गिरा ।
पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः ॥ [भा।पु। १.११.४-५]
तत्र श्री-द्वारकायाम्। रवेर् उपहार-रूपं दीपम् आदृतवन्तो जना इवेत्य् अर्थः । एवं स्तुत्य्-आदिकम् अपि तत्-प्रीणनताम् अर्हतीत्य् आह—प्रीत्या इति । पितरम् अर्भका इव इति दृष्टान्तः । तस्य प्रीतावसाधारण-गुण-विशेषम् अप्य् आह—सर्व-सुहृदम् इति । सर्व-सुहृत्त्वे लिङ्गम्—अवितारम् इति । तथा आत्माराम-पूर्ण-कामत्वेऽपि तादृशस्य1 स्व-सम्बन्धाभिमानि-प्रीति-मत्-पुत्रादिषु प्रीति-विशेषोदयो यथा दृश्यते, तथा तेषु तं प्रीतिमन्तम् इत्य् अर्थः । एवं कल्पतरु-दृष्टान्तेऽपि भगवतो भक्त-विषयिका2 कृपा यथार्थम् एवोपपद्यते । ये खलु सहज-तत्-प्रीतिम् एवात्मनि प्रार्थयमाना भजन्ते, तेभ्यस् तद्-दान-याथार्थ्यस्यावश्यकत्वात् । तस्माद् अस्त्य् एवानन्द-रूपस्यापि भक्ताव् आनन्दोल्लास इति ।
॥ १.११ ॥ श्री-सूतः ॥ १४३ ॥