१४२

ननु निरतिशय-नित्यानन्द-रूपस्य भगवतः कथं तया सुखम् उत्पद्येत, निरतिशयत्व-नित्यत्वयोर् विरोधात्?1 उच्यते—शास्त्रे खलु निरतिशयानन्दत्वं नित्यत्वं च भगवतः श्रूयते । भक्तेर् अपि तथा तत्-प्रीति-हेतुत्वं श्रूयते । तत एवं गम्यते—तस्य परमानन्दैक-रूपस्य स्व-परानन्दिनी स्वरूप-शक्तिर् या ह्लादिनी-नाम्नी वर्तते, प्रकाश-वस्तुनः स्व-पर-प्रकाशन-शक्तिवत् परम-वृत्ति-रूपैवैषा । तां च भगवान् स्व-वृन्दे निक्षिपन्न् एव नित्यं वर्तते । तत्-सम्बन्धेन च स्वयम् अतितरां प्रीणातीति । अत एव तस्य प्रीति-रूपस्यापि भक्ति-प्रीणनीयत्वम् आह—

यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्-
मनुष्य-वीरुत्-तृणम् आविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्व-जीवः
प्रीतः स्वयं प्रीतिम् अगाद् गयस्य ॥ [भा।पु। ५.१५.१३]

विश्व-जीवः सर्व-जीवन-हेतुः । देवादीनां द्वन्द्वैक्यम् । प्रीतिः सुख-रूपोऽपि ॥

॥ ५.१५ ॥ श्री-शुकः ॥ १४२ ॥


  1. विधानात् (ख, च) ↩︎