श्री-भगवद्-विषयक-रति-प्रदत्वम् उक्तम् । एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे [भा।पु। ७.७.३३] इत्य्-आदिना । यत् तु—अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इत्य् उक्त्यापि1 तद्-रतिर् न प्राप्यत इति शङ्क्यते, तत् खल्व् अविवेकाद् एव । कर्हिचिद् इति भक्ति-योगाख्य-तद्-रति-पुरुषार्थतायां शैथिल्ये सत्य् एवेत्य् अर्थ-लाभात्, “कर्हिचिद् अपि” अनुक्तत्वात्, असाकल्ये तु चिच्-चनौ इत्य् अमर-कोषाच् च । तथापि यद्यपि चिरम्2 आवृत्तिः स्यात्, तदा रतिम् अपि ददाति—सत्यं दिशत्य् अर्थितम् अर्थितो नॄणाम् [भा।पु। ५.१९.२४] इत्य्-आदेर् इति च कर्हिचित्-पदेन गम्यते ।
भक्त-विषयक-भगवत्-प्रीत्य्-एक-हेतुत्वम्3 अप्य् उदाहृतम्, नालं द्विजत्वं देवत्वम्
[भा।पु। ७.७.५१] इत्य्-आदि ।तथा चाह—
मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-
तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गज-यूथपाय ॥ [भा।पु। ७.९.९]
अभिजनः सत्-कुल-जन्म । बुद्धिर् ज्ञान-योगः । योगोऽष्टाङ्गः ॥
॥ ७.९ ॥ श्री-प्रह्लादः श्री-नृसिंह-देवम् ॥ १४१ ॥