परम-सुख-रूपत्वं च दृश्यते । तत्र साधन-दशायां, अतो वै कवयो नित्यम् [भा।पु। १.२.२२] इत्य्-आदौ, कर्मण्य् अस्मिन्न् अनाश्वासे [भा।पु। १.१८.१२] इत्य्-आदौ च तद्-रूपत्वाभिव्यक्तिर् दर्शितैव । सिद्ध-दशायां तु सुतरां प्रकटीभवति । यथा—
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [भा।पु। ९.४.६७]
अत्रान्यस्य काल-विप्लुतत्वम् इति सेवायास् तद्-अभाव-प्राप्तेर्1 निर्गुणत्वं सिद्धम् । अकाल-विप्लुत-सालोक्यादिभ्योऽतिशये2 किम् उतेति ॥
॥ ९.४ ॥ श्री-विष्णुर् दुर्वाससम् ॥ १४० ॥