अत एव भक्तेः श्री-भगवत्-स्वरूप-शक्ति-बोधकत्वं1 स्वयम्-प्रकाशत्वम् आह —
यज्ञाय धर्म-पतये विधि-नैपुणाय
योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्य् उदारं
हास्यन् मृगत्वम् अपि यः समुदाजहार ॥ [भा।पु। ५.१४.४५]
य आर्षभेयो भरतो मरण-समये तत्रापि मृग-शरीरे, तद्-वचन-जन्मात्यन्तासम्भवात् स्व-प्रकाशत्वम् एव तस्याः कीर्तन-लक्षणाया भक्तेः सिध्यति । एवं गजेन्द्रेऽपि ज्ञेयम् ॥
॥ ५.१४ ॥ श्री-शुकः ॥ १३९ ॥
-
शक्तित्व-बोधकं (क, ख, ग, घ, ङ, च) ↩︎