अत आह—
धर्मं भागवतं शुद्धं
त्रैवेद्यं च गुणाश्रयम् । [भा।पु। ६.२.२४] इति ।
शुद्धं निर्गुणम् इति । त्रैवेद्यं वेद-त्रय-प्रतिपाद्यं गुणाश्रयम् इति ।टीका च—वेद-शब्देनात्र कर्म-काण्डम् एवोच्यते, एवं त्रयी-धर्मम् [गीता ९.२१] इत्य्-आदेः ।
॥ ६.२ ॥ श्री-शुकः ॥ १३८ ॥