१३७

तद् एवं क्रिया-मात्रस्य तादृशत्वम् उक्त्वा, तत्-प्रवृत्ति-हेतु-भूतायाः श्रद्धाया अप्य् आह—

सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [भा।पु। ११.२५.२७]

अधर्मोऽपर-धर्मः । अन्यत् पूर्ववत् ॥

॥ ११.२५ ॥ श्री-भगवान् ॥ १३३-१३७ ॥