१३६

एवं वास-मात्रस्य तादृशत्वम् उक्त्वा सर्वासाम् एव तत्-क्रियाणां तादृशत्वम्1 आह—

सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ [भा।पु। ११.२५.२६]

अत्र च क्रियायाम् एव तात्पर्यं, न तद्-आश्रिते द्रव्ये । सात्त्विक-कारकस्य शरीरादिकं हि गुण-त्रय-परिणतम् एव ॥


  1. तादृशत्वं इति ज, य। ↩︎