तद् एवम् अभिप्रेत्य ज्ञान-रूपाया भक्तेर् निर्गुणत्वम् उक्त्वा क्रिया-रूपाया व्याचष्टे । तत्राप्य् अस्तु तावत् श्रवण-कीर्तनादि-रूपाया भगवत्-सम्बन्धेन वास-मात्र-रूपाया आह—
वनं तु सात्त्विको वासो ग्राम्यो राजस उच्यते ।
तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् ॥ [भा।पु। ११.२५.२५]
वनं वास इति तत्-सम्बन्धिनी वसन-क्रियेत्य् अर्थः, वानप्रस्थानाम् इति ज्ञेयम् । एवं ग्राम्य इति गृहस्थानाम् । तामसम् इति दुराचाराणाम् । द्यूत-सदनम् इत्य् उपलक्षणम् । मन्-निकेतम् इति मत्-सेवा-पराणाम् इति च । वनादीनां वासेन सह “आयुर् घृतम्” इतिवद् एकाधिकरणत्वम् । वनस्य वृक्ष-षण्ड-रूपस्य रजस्-तमः-प्राधान्यात् । अत एव विविक्तत्व-लक्षण-तदीय-सात्त्विक-गुणस्यापि तद्-युगल-मिश्रत्वेन गौणत्वम् । वास-क्रियायास् तु सत्त्वोपपन्नत्वात् तद्-वर्धनत्वाच् च सात्त्विकत्वे मुख्यत्वम् इति तस्या एवाभिधेयत्वम् उचितम् । अत एव ग्राम्य इति तद्धितान्त एव पठितः । एवं द्यूत-सदनम् इत्य् अत्र च वास-क्रियैव विवक्षिता । मन्-निकेतम् इत्य् अत्रापि । किन्तु भगवत्-सम्बन्ध-माहात्म्येन निकेतस्यापि निर्गुणत्वं भवेत्, स्पर्श-मणि-न्यायेन । तादृशत्वं तु तादृश-भक्ति-चक्षुर्भिर् एवोपलब्धव्यम्, दिविष्ठास् तत्र पश्यन्ति सर्वान् एव चतुर्भुजान्[ब्राह्मे] इतिवत्। एवम् एव टीका च—भगवन्-निकेतं तु साक्षात् तद्-आविर्भावान् निर्गुणं स्थानम् ॥ इत्य् एषा ॥