अथानुष्ठानान्तराणां त्रिगुणान्तर्गतत्वं वदन् चतुर्थ-कक्षायां साक्षाद्-भक्तेर् निर्गुणत्वम् आह चतुःषु—
कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥
[भा।पु। ११.२५.२४]
प्राकृतं बाल-मूकादि-ज्ञान-तुल्यम् । वैकल्पिकं देहादि-विषयं यत् तद् रजो राजसम् । केवलस्य निर्विशेषस्य ब्रह्मणः शुद्ध-जीवाभेदेन ज्ञानं कैवल्यं, त्वं-पदार्थ-मात्र-ज्ञानस्य केवलत्वानुपपत्तिः, तत्-पदार्थ-ज्ञान-सापेक्षत्वात् । सत्त्व-युक्ते हि चित्ते प्रथमतः शुद्धं सूक्ष्मं जीव-चैतन्यं प्रकाशते । ततश् चिद्-एकाकारत्वाभेदेन तस्मिन् शुद्धं पूर्णं ब्रह्म-चैतन्यम् अप्य् अनुभूयते । ततः सत्त्व-गुणस्यैव तत्र कारणता-प्राचुर्यात् सात्त्विकत्वम् । तथा च श्री-गीतोपनिषदः—सत्त्वात् सञ्जायते ज्ञानं [गीता १४.१७] इति ।
भगवज्-ज्ञानस्य तु—
देवानां शुद्ध-सत्त्वानाम् ऋषीणां चामलात्मनाम् ।
भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते ॥ [भा।पु। ६.१४.२]
मुक्तानाम् अपि सिद्धानां नारायण-परायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा।पु। ६.१४.५]
इत्य्-आद्य्-उक्त्या सत्त्वादि-सद्-भावेऽप्य् अभावात्—
रजस्-तमः-स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
नारायणे भगवति कथम् आसीद् दृढा मतिः ॥ [भा।पु। ६.१४.१]
इत्य्-उक्त्या तद्-अभावेऽपि वृत्रासुरस्य सद्-भावान् न तत्-कारणत्वम्, किन्तु तद्-उत्तरत्वेन तस्य पूर्व-जन्मनि नारदादि-सङ्ग-वर्णनया ।
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं
स्पृशत्य् अनर्थापगमो यद्-अर्थः ।
महीयसां पाद-रजो-ऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ [भा।पु। ७.५.३२]
इत्य् उक्त्या च भगवत्-कृपा-परिमल-पात्र-भूतस्य श्रीमतो महतः सङ्ग एव कारणम् । तत्-सङ्गश् च—
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भा।पु। १.१८.१३, ४.३०.३३]
इत्य् उक्त्या निर्गुणावस्थातोऽप्य् अधिकत्वात् परम-निर्गुण एव । सप्तमस्य च प्रथमे च—समः प्रियः सुहृद् ब्रह्मन् [भा।पु। ७.१.१] इत्य्-आदौ स-गुणे देवादौ तस्य कृपा वास्तवी न भवति, किन्तु श्रीमत्-प्रह्लादादिष्व् एवेति प्रतिपादनान् महतां निर्गुणत्वाभिव्यक्त्या तत्-सङ्गस्यापि निर्गुणत्वं व्यक्तम् । तथा भक्तेर् अपि गुण-सङ्ग-निर्धूननानन्तरं चानुवृत्तिः श्रूयते । यद् उक्तम् उद्धवं प्रति श्री-भगवता—
तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् ।
गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ [भा।पु। ११.२५.३३] इति ।
परमेश्वर-ज्ञानस्य नैर्गुण्य-हेतुत्वेन निर्गुणत्वोक्तिस् तु लक्षणा-मय-कष्ट-कल्पना । तथा कैवल्य-ज्ञानस्यापि नैर्गुण्य-हेतुत्वाद् अवैशिष्ट्येनोदाहरण-भेदाप्रवृत्तिश् च स्यात् । तस्मात् स्वत एव निर्गुणं भगवज्-ज्ञानम् । अत एव—
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [भा।पु। ११.२५.२९]
इत्य् अत्र तत्-सुखस्यापि निर्गुणत्वं वक्ष्यते । एवं श्रवणादि-लक्षण-क्रिया-रूपाया अपि भक्तेः,
शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ [भा।पु। १.२.१६]
इत्य् उक्त्या तद्-एक-निदानत्वेन निर्गुणत्वम् एव ।
ननु—
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८]
इति श्री-मत्स्य-देवस्य वचनेन ब्रह्म-ज्ञानम् अपि श्री-भगवत्-प्रसादोत्थं श्रूयते, तत् कथं तस्य सगुणत्वम् ? उच्यते—ब्रह्म-ज्ञानं द्विविधानां जायते । तत्र भगवद्-उपासकानाम् आनुषङ्गिकत्वेन, ब्रह्मोपासकानां स्वतन्त्रत्वेन । भगवद्-उपासकैस् तु भगवच्-छक्ति-रूपया भक्त्या किञ्चिद्-भेदेनैव गृह्यते । तच् च ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति [गीता १८.५४] इत्य्-आदि-श्री-गीतोक्तानुसारेण, आत्मारामाश् चमुनयः [भा।पु। १.७.१०] इत्य्-आद्य्-अनुसारेण च भगवतः पराख्य-भक्ति-परिकरो भवति।
ब्रह्मोपासकैस् तु पूर्ववद् अभेदेनैव गृह्यते, तत्-फलस्य नात्यन्तिकं विगणयत्य् अपि ते प्रसादम् [भा।पु। ३.१५.४८] इत्य्-उक्त-दिशा परैर् आत्यन्तिकत्वेन मतस्यापि, परम-विद्वद्भिर् अनादृतत्वात्, तथा भक्ति-विरुद्धत्वेन स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा।पु। ६.१७.२८] इत्य् उक्त्या, नरकवद् अपवर्गस्यापि हेयत्वात् प्रसादाभास एवासौ । स्व-मत्य्-अनुसारेण प्रसादतया गृह्यमाणश् चेन्मति-कल्पितत्वात्1 स-गुण एव । ततः कैवल्य-ज्ञानम् अपि तथा । विशेषतस् तस्य स-गुण-सम्बन्धेन जन्माङ्गीकृतम् अस्ति ।
ननु अन्तर् बहिश् च करणं पुरुषस्य गुणमयम् एव । तद्-उद्भवयोर् भक्ति-रूपयोः ज्ञान-क्रिययोः2 कथं निर्गुणत्वम् ? उच्यते, ज्ञान-शक्तिः क्रिया-शक्तिर् वा न तावज् जडस्य त्रैगुण्यस्य धर्मः, घटस्येव । न च चिद्-रूपस्यापि जीवस्य ईश्वराधीन-शक्तित्वेनामुख्यत्वात्, देवताविष्ट-पुरुषस्येव, ततः परमात्म-चैतन्यस्यैवेत्य् आयाति3 । तथोक्तं—
देहेन्द्रिय-प्राण-मनो-धियोऽमी
यद्-अंश-विद्धाः प्रचरन्ति कर्मसु । [भा।पु। ६.१६.२४] इति ।
तथा च श्रुतिः—प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः[बृ।आ।उ। ४.४.१८] इति, न ऋते तत् क्रियते किं च नारे इत्य्-आदिका ।तद् एवं सति त्रैगुण्य-कार्य-प्राधान्येन भवन्त्यौ ते गुणमयत्वेनोच्येते । परमेश्वर-प्राधान्येन तु स्वतो गुणातीते एव ते । तद् उक्तं देवामृत-पानाध्याये श्री-शुकेन—
यद् युज्यतेऽसु-वसु-कर्म-मनो-वचोभिर्
देहात्मजादिषु नृभिस् तद् असत् पृथक्त्वात् ।
तैर् एव सद् भवति यत् क्रियतेऽपृथक्त्वात्
सर्वस्य तद् भवति मूल-निषेचनं यत् ॥ [भा।पु। ८.९.२९] इति ।
पृथक्त्वात् परमात्मेतराश्रयत्वात् । अपृथक्त्वात् तद्-एकाश्रयत्वाद् इत्य् अर्थः । अतो युक्तम् एव ज्ञान-क्रियात्मिकाया हरि-भक्तेर् निर्गुणत्वम् । विशेषतस् तस्या4 गुण-सम्बन्धेन जन्माभावश् चाङ्गीकृतः, न तु ब्रह्म-ज्ञानस्येव गुण-सम्बन्धेन जन्म-भाव इति । ततोऽसौ भक्तिस् तस्यापि प्रीणनत्वादि-गुणैर् उदाहरिष्यते । यत् तु श्री-कपिल-देवेन भक्तेर् अपि निर्गुण-सगुणावस्थाः कथितास् ताः पुनः पुरुषान्तःकरण-गुणा एव तस्याम् उपचर्यन्त इति स्थितम् ॥