१३३

अथ साक्षाद् भक्तेर् निर्गुणत्वं वक्तुं भगवद्-अर्पित-कर्मारभ्य सर्वेषां कर्मणां तावत् सगुणत्वम् आहैकेन—

मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् ।
राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥ [भा।पु। ११.२५.२३]

मयि अर्पणं यस्य मद्-अर्पितम् इत्य् अर्थः । निष्फलं निष्कामम् । फलं सङ्कल्प्यते यस्मिन् तत् । आदि-शब्दाद् दम्भ-मात्सर्यादिभिः कृतम् ॥