ज्ञान-वैराग्यादि-सद्-गुण-हेतुत्वम् उक्तं—यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इत्य्-आदिना ।
स्वर्गापवर्ग-भगवद्-धामादि-सर्वानन्द-हेतुत्वम् अप्य् उक्तं, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदिना । स्वतः परम-सुख-दानेन कर्मादि-ज्ञानानन्त-साधन-साध्य-वस्तूनां हेयत्व-कारिताम् आह—
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [भा।पु। ११.१४.१४]
रसाधिपत्यं पातालादि-स्वामित्वम् । अपुनर्भवं ब्रह्म-कैवल्य-रूपं मोक्षम् । किं बहुना, यत् किञ्चिद् अपि साध्य-जातं, तत् सर्वं नेच्छत्य् एव, किन्तु मद् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-पुरुषार्थाधिकम् इच्छतीत्य् अर्थः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ॥
॥ ११.१४ ॥ श्री-भगवान् ॥ १३२ ॥