१३१

सर्व-प्रीणन-हेतुत्वम् उक्तम्—यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य्-आदिना । तथाह—

सुरुचिस् तं समुत्थाप्यपादावनतम् अर्भकम् ।

परिष्वज्याह जीवेति बाष्प-गद्गदया गिरा ।

यस्य प्रसन्नो भगवान् गुणैर् मैत्र्य्-आदिभिर् हरिः ।
तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥ [भा।पु। ४.९.४६-४७]

सुरुचिर् निज-विद्वेषिणी मातुः सपत्न्य् अपि तं भगवद्-आराधनत आगतं श्री-ध्रुवम् । यथा पाद्मे—

येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि ॥ इति ।

॥ ४.९ ॥ श्री-मैत्रेयः ॥ १३१ ॥