अविद्या-हरत्वम् आह—
त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त
आनन्द-मात्र उपपन्न-समस्त-शक्तौ ।
भक्तिं विधाय परमां शनकैर् अविद्या-
ग्रन्थिं बिभेत्स्यसि ममाहम् इति प्ररूढम् ॥ [भा।पु। ४.११.३०]
तथा च पाद्मे—
कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा ।
अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम् ॥ इति ।
॥ ४.११ ॥ श्री-मनुर् ध्रुवम् ॥ १३० ॥