१२९

तद्-वासना-हारित्वम् आह—

तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः ।
नाधर्मजं तद्-धृदयं तद् अपीशाङ्घ्रि-सेवया ॥ [भा।पु। ६.२.१७]

अधर्माज् जातं तेषाम् अघानां हृदयं संस्काराख्यं न शुद्ध्यति । तद् अपीशाङ्घ्रि-सेवया शुद्ध्यतीत्य् अर्थः । पाद्मे च—

अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम् ॥ इति ।

अप्रारब्ध-फलं वक्ष्यमाणेभ्योऽन्यत् । कूटं बीजत्वोन्मुखम्। बीजं प्रारब्धोन्-मुखम्। फलोन्मुखं प्रारब्धम् इत्य् अर्थः ॥

॥ ६.२ ॥ श्री-विष्णु-दूता यम-दूतान् ॥ १२९ ॥