क्वचित् प्रारब्ध-पाप-हारित्वम् अप्य् आह द्वाभ्याम्—
यन्-नाम-धेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात् ॥
अहो बत श्व-पचोऽतो गरीयान्
यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या
ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ [भा।पु। ३.३३.६-७]
[टीका च—यन्-नामधेयस्य श्रवणम् अनुकीर्तनं च तस्मात् । क्वचित् कदाचिद् अपि । श्वानम् अत्तीति श्वादः श्वपचः, सोऽपि सवनाय कल्पते योग्यो भवति ॥]1
श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव । श्वानम् अत्तीति निरुक्तौ वर्तमान-प्रयोगात्, क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षणे प्रायश्चित्त-विवक्षायां त्व् अतीत-प्रयोगः क्रियेत । “रूढिर् योगम् अपहरति” इति न्यायेन च तद् विरुध्यते । अत एव श्वपच इति तैर् व्याख्यातम् । सवनं चात्र सोम-याग उच्यते । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव सवन-योग्यता-प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाशः प्रतिपद्यते । तस्माद् [उद्धवं प्रति श्री-भगवता चोक्तम्]—भक्तिः2 पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भा।पु। ११.१४.२१] इति कैमुत्यार्थम् एव प्रोक्तम् इत्य् आयाति ।
किन्तु योग्यत्वम् अत्र श्वपचत्व-प्रापक-प्रारब्ध-पाप-विच्छिन्नत्व-मात्रम् उच्यते । सवनार्थं तु गुणान्तराधानम् अपेक्षत एव, ब्राह्मण-कुमाराणां शौक्रे जन्मनि योग्यत्वे सत्य् अपि सावित्र-दैक्ष-जन्मापेक्षावत् । सावित्रादि-जन्म-निमित्त-सवन-सद्-आचार-प्राप्तेर्3 इति सवने प्रवृत्तिर् नास्य युज्यते । तस्मात् पूज्यत्व-मात्रे तात्पर्यम् इत्य् अभिप्रेत्य टीका-कृद्भिर् अप्य् उक्तम्—अनेन पूज्यत्वं लक्ष्यत इति । तथापि [जाति-दोष-हरत्वेन]4 प्रारब्ध-हारित्वं तु व्यक्तम् एवायातम् ।5
[द्वितीय-श्लोकस्य] टीका च—तद् उपपादयति—अहो बत आश्चर्ये, यस्य जिह्वाग्रे तव नाम वर्तते सश्वपचोऽपि । अतोऽस्माद् एव हेतोर् गरीयान् ।यद् यस्माद् वर्तत, अत इति वा । कुतः ? इत्य् अत आह—त एव तपस् तेपुःइत्य्-आदिका, त्वन्-नाम-कीर्तने तप-आद्य्-अन्तर्-भूतं, ततस् ते पुण्यतमा इत्य् अर्थः॥ इत्य् अन्ता ।6
एवं प्रारब्ध-हेतु-व्याध्य्-आदि-हरत्वं च स्कान्दे—
आधयो व्याधयो यस्य स्मरणान् नाम-कीर्तनात् ।
तद् एव विलयं यान्ति तम् अनन्तं नमाम्य् अहम् ॥ इति ।
उक्तं च नाम-कौमुद्याम्—प्रारब्ध-पाप-हरत्वं च क्वचिद् उपासकेच्छा-वशात् इति ।
॥ ३.३३ ॥ श्री-देवहूतिः ॥ १२८ ॥
-
इन् थे प्लचे ओफ़् थे फ़ोल्लोwइन्ग् परग्रफ् (छ, ल) ओन्ल्य् हवे थिस् श्रीधर टीका हेरे। हे थेन् गोएस् ओन् दिरेच्त्ल्य् तो तद् उपपादयति… wइथोउत् अन्य् ओफ़् थे ओथेर् तेxत्। ↩︎
-
झ, ञ, य ↩︎
-
सावित्रादि-जन्मनि तु (य) ↩︎
-
नोत् इन् प्, बुत् फ़ोउन्द् इन् (र), एत्च्। ↩︎
-
“श्वादत्वम् अत्र… व्यक्तम् एवायायातम्” इत्य् अत्र छ-झ-ञ-ग्रन्थेषु पाठान्तरं—टीका च—यन्-नाम-धेयस्य श्रवणम् अनुकीर्तनं च तस्मात्, क्वचिद् कदाचिद् अपि । श्वानम् अत्तीति स्वादः श्वपचः, सोऽपि सवनाय कल्पते योग्यो भवति इति ॥ ↩︎
-
इत्य् अस्मात् परं—उद्धवं प्रति श्री-भगवता चोक्तं—भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भा।पु। ११.१४.२०] इति । अत्र जाति-दोष-हरत्वेन प्रारब्ध-हारित्वं स्पष्टम् ॥ इति छ-झ-ञ-ग्रन्थानां अधिक-पाठः ॥ ↩︎