१२७

किं च—

न तथा ह्य् अघवान् राजन् पूयेत तप-आदिभिः ।
यथा कृष्णार्पित-प्राणस् तत्-पुरुष-निषेवया ॥ [भा।पु। ६.१.१६]

टीका च—एतच् च ज्ञान-मार्गाद् अपि श्रेष्ठम् इत्य् आह—न तथा पूयेत शुध्येत् । तत्-पुरुष-निषेवया कृष्णे अर्पिताः प्राणा येन ॥ इत्य् एषा ।

अत्र प्रायश्चित्तं विमर्शनम् [भा।पु। ६.१.१०] इति ज्ञानस्यापि प्रायश्चित्तत्वं पूर्वम् उक्तम् । अत एव टीकोक्तम् एतच् च इत्य्-आदि । तदाऋतम्भर-ध्यान-निवारिताघः1 [भा।पु। ६.१३.१३] इत्य्-आद्य्-उक्त्या, भगवद्-ध्यान-निवारित-वृत्र-हत्या-पापस्येन्द्रस्य तं च [भा।पु। ६.१३.१४] इत्य्-आदौ पुनर् अश्वमेध-विधानं साधारण-लोके पाप-प्रसिद्धेर् एव निवारणार्थम् इति ज्ञेयम् ।

ननु कथं तदानीम् अप्य् आविर्भूत-भगवत्-प्रेमत्वात् परम-भागवतस्य वृत्रस्य हत्या भगवद्-आराधनेनापि गच्छतु ? महद्-अपराध-मात्रम् अपि भोगैक-नाश्यं तत्-प्रसाद-नाश्यं वेति मतम् । उच्यते—तथापि भगवत्-प्रेरणया तत्र प्रवृत्तस्येन्द्रस्य न तादृशो दोष इति तद्-आराधनम् एवात्र प्रायश्चित्तं विहितम् । श्री-भगवतापि तद्-आसुर-भव-निवारणायैव तथोपदिष्टम् इत्य् अनवद्यम् ॥

॥ ६.१ ॥ श्री-शुकः ॥ १२६-१२७ ॥


  1. तद् एवं (य) ↩︎