तथा च—
केचित् केवलया भक्त्या वासुदेव-परायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ [भा।पु। ६.१.१५]
टीका च—केचिद् इत्य् अनेनैवम्भूता भक्ति-प्रधाना विरला इति दर्शयति । केवलया तप-आदि-निरपेक्षया वासुदेव-परायणा इति नाधिकारि-विशेषणम् एतत्, किन्तु अन्येषाम् अश्रद्धया तत्राप्रवृत्तेर्1 अर्थात् तेष्व् एव पर्यवसानाद् अनुवाद-मात्रम् ॥ इत्य् एषा ।
अत्र भास्करोऽपि केवलेन स्व-रश्मिना स्व-भावत एव नीहारं निःशेषं धुनोति । न तद्-अर्थं प्रयत्नतः, तथा वासुदेव-परायणा अपि भक्त्या इति ज्ञेयम् ॥
-
तत्राप्रवृत्तेर् (य, र) ↩︎