१२५

अथ पापघ्नत्वे तावद् अप्रारब्ध-पापघ्नत्वम् आह—

यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ [भा।पु। ११.१४.१९]

टीका च—पाकाद्य्-अर्थं प्रज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति, तथा रागादिनापि1 कथञ्चिन् मद्-विषया भक्तिः समस्त-पापानीति । भगवान् अपि स्व-भक्ति-महिमाश्चर्येण सम्बोधयति—अहो उद्धव! विस्मयं शृणु ॥ इत्य् एषा ।

[अत्र दृष्टान्ते सुसमिद्धार्चिः इतिवद् दार्ष्टान्तिके सुदृढा इत्य्-आद्य्-अनुक्तेः, अदृढापि इत्य्-आदि उन्नीयते । अत्रैव कृत्स्नशः इत्य् उक्तम् ।]2

पाद्म-पाताल-खण्ड-स्थ-वैशाख्य-माहात्म्ये च—

यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् ।
पापानि भगवद्-भक्तिस् तथा दहति तत्-क्षणात् ॥ [प।पु। ५.८५.३१] इति ।

यद्यपि हरिर् इत्य् अवशेनापि पुमान् नार्हति यातनाम् [भा।पु। ६.२.१५] इत्य्-आदौ लिङ्-आदि-प्रत्यय-विरहेऽपि, पूषाप्रपिष्ट-भागः, यद् आग्नेयोऽष्टाकपालो भवति [यजुर्-वेद] इत्य्-आदिवद् विधित्वम् अस्ति,

तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ [भा।पु। २.१.५]

इत्य्-आदौ साक्षाद् विधित्व-श्रवणम् अप्य् अस्ति, तस्माद् इति हेतु-निर्देशश् चाकरणे दोषं क्रोडीकरोति, तथापि विधि-सापेक्षेयं न भवतीति तथाभूत-स्वभावाग्नि-लक्षण-वस्तु-दृष्टान्तेन सूचितम् ।

अत एव यान् आस्थाय नरो राजन् [भा।पु। ११.२.३५] इत्य्-आदिकम् अपि दृश्यते । सुसमिद्धार्चिर् इत्य् अनेन साधनान्तर-सापेक्षत्वम् अशक्य-साध्यत्वं विलम्बितत्वं च निराकृतम् । तद् एव व्यक्तं पाद्मात्_तत्-क्षणात्_ इति ॥

॥ ११.१४ ॥ श्री-भगवान् ॥ १२५ ॥


  1. वाग्-आदिनापि (?) ↩︎

  2. “अत्र… इत्य् उक्तम्” इति अनुच्छेदांशः ख-ग-करलिप्योः प्राप्तः । ↩︎