१२४

तथा—

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥ [भा।पु। ३.२२.३७]

एवम् अप्य् उक्तं गारुडे—

न च दुर्वाससः शापो वज्रं चापि शचीपतेः ।
हन्तुं समर्थं पुरुषं हृदिस्थे मधुसूदने ॥ [ग।पु। १.२३४.३३] इति ।

॥ ३.२२ ॥ श्री-मैत्रेयो विदुरम् ॥ १२४ ॥