१२३

दुष्ट-जीवादि-भय-निवारकत्वम् आह—

दिग्-गजैर् दन्दशूकेन्द्रैर् अभिचारावपातनैः ।
मायाभिः सन्निरोधैश् च गर-दानैर् अभोजनैः ॥
हिम-वाय्व्-अग्नि-सलिलैः पर्वताक्रमणैर् अपि ।
न शशाक यदा हन्तुम् अपापम् असुरः सुतम् ॥

चिन्तां दीर्घतमां प्राप्तस् तत्कर्तुं नाभ्यपद्यत । [भा।७.५.४३-४५]

अत्र दन्ता गजानां कुलिशाग्र-निष्ठुराः [वि।पु। १.१७.४४] इत्य्-आदिकं वैष्णव-वचन-जातम् अनुसन्धेयम् । न यत्र श्रवणादीनि [भा।पु। १०.६.३] इत्य्-आदिकं च । यथा बृहन्-नारदीये—

यत्र पूजा-परो विष्णोर् वह्निस् तत्र न बाधते ।
राजा वा तस्करो वापि व्याधयश् च न सन्ति हि ॥
प्रेताः पिशाचाः कूष्माण्ड-ग्रहा बाल-ग्रहास् तथा ।
डाकिन्यो राक्षसाश् चैव न बाधन्तेऽच्युतार्चकम् ॥ [ना।प। १.१०.८-९] इति ॥

॥ ७.५ ॥ श्री-नारदः श्री-युधिष्ठिरम् ॥ १२३ ॥