तथा—
न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् ।
भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् ॥ [भा।पु। ३.२१.२४]
मयि संगृभितः संगृहीतो बद्ध आत्मा येषाम् । तथा बाध्यमानोऽपि [भा।पु। ११.१४.१८] इत्य्-आदिकम् अत्रोदाहरणीयम् । अत्र प्रायो बाध्यमानत्वं कदाचित् कदाचित् तद्-ध्यानादित आकृष्यमाणत्वम् अवगम्यते1 । तथाप्य् अनभिभूतत्वं, वेद दुःखात्मकान् कामान् परित्यागेऽप्य् अनीश्वरः [भा।पु। ११.२०.२७] इत्य्-आदि-न्यायेन । तत्रापि भगवन्तं प्रति निज-दैन्यादि-निवेदनादिना2 भक्तेर् एवानुवृत्तिर् इति ज्ञेयम् ॥
॥ ३.२१ ॥ श्री-शुक्लः3 कर्दमम् ॥ १२२ ॥