१२१

तद् एवं भक्तेर् एवाभिधेयत्वं स्थितम् । तत्र यद् बहुत्र कर्मादि-मिश्रत्वेन तद्-धर्म उपदिश्यते, तत् तु तत्-तन्-मार्ग-निष्ठान् भक्ति-सम्बन्धेन कृतार्थयितुं, तान् एव कांश्चिद् भक्त्य्-आस्वादनेन शुद्धायाम् एव भक्तौ प्रवर्तयितुं चेति ज्ञेयम् ।

पुनश् च सर्वत्र तस्या एवाभिधेयत्वं वक्तुं तदीयो महिमा पूर्वत्र व्याख्यातोऽपि क्रमेण व्याख्यायते । सर्वैर् एव विशेषतो भक्तैर् अन्यत् तु1 न कर्तव्यम् इत्य् अभिप्रायेण तत्र तस्याः परम-धर्मत्वं, सर्व-काम-प्रदत्वं च—एतावान् एव लोकेऽस्मिन् [भा।पु। ६.३.२२] इत्य्-आदौ, अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदौ, सर्वासाम् अपि सिद्धीनां [भा।पु। १०.८१.१६, अनु। ९७] इत्य्-आदौ च दर्शितम् एव । स्कान्दे च श्री-सनत्-कुमार-मार्कण्डेय-संवादे—

विशिष्टः सर्व-धर्माणां धर्मो विष्ण्व्-अर्चनं नृणाम् ।
सर्व-यज्ञ-तपो-होम-तीर्थ-स्नानैश् च यत् फलम् ॥
तत्फलं कोटि-गुणितं विष्णुं सम्पूज्य चाप्नुयात् ।
तस्मात् सर्व-प्रयत्नेन नारायणम् इहार्चयेत् ॥

तत्रैव ब्रह्म-नारद-संवादे च—2

अश्वमेध-सहस्राणां सहस्रं यः करोति वै ।
न तत् फलम् अवाप्नोति मद्-भक्तैर् यद् अवाप्यते ॥ इति ।

अशुभघ्नत्वम् अपि—सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतोभयः [भा।पु। ६.१.१७] इत्य्-आदौ दर्शितम् [९३] । टीका च—अतो न ज्ञान-मार्ग इवासहायता-निमित्तं भयं, नापि कर्म-मार्गवन्मत्सरादि-युक्तेभ्यो भयम् इति भावः इत्य् एषा ।

तथा च स्कान्दे द्वारका-माहात्म्ये परमेश्वर-वाक्यम्—

मद्-भक्तिं वहतां पुंसाम् इह लोके परेऽपि वा ।
नाशुभं विद्यते लोके कुल-कोटिं नयेद् दिवम् ॥ इति ।

श्री-विष्णु-पुराणे—

स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ [वि।पु। ५.१७.१७]

सर्वान्तराय-निवारकत्वम् आहुः—

तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो ॥ [भा।पु। १०.२.३३]

पूर्वं येऽन्येऽरविन्दाक्ष [भा।पु। १०.२.३२]3 इत्य्-आदिना मुक्तानाम् अपि भगवद्-अनादरेण पारमार्थिको भ्रंश उक्तः । भक्तानां स नास्तीत्य् आहुः—तथेति । यथा पूर्वं आरूढ-परम-पदत्वावस्थातोऽपि भ्रश्यन्ति, तथातावकामार्गात् साधनावस्थातोऽपि न भ्रश्यन्ति, किम् उत मृग्यात् त्वत्तैत्य् अर्थः, श्री-वृत्र-गजेन्द्र-भरतादीनां सज्-जन्मतो भ्रंशेऽपि भक्ति-वासनानुगति-दर्शनात् । [वासना-भाष्ये च]—

मुक्ता अपि प्रपद्यन्ते पुनः संसार-वासनाम् ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥

इति तेषां तु पुनः संसार-वासनानुगतेः । [यद् वा, येन निःसन्देहत्वादि-रूपेण प्रकारेण येऽन्येऽरविन्दाक्ष [१०.२.३२] इत्य्-आदि-रूपैतत्-पद्य-पूर्व-पद्योक्ता बहिर्मुखा भ्रश्यन्ति, तेनैव निःसन्देहत्वादि-रूपेण प्रकारेण तावका न भ्रश्यन्ति, तद्-भ्रंश-तद्-भ्रंशाभावयोर् उभयोर् अपि निःसन्देहत्वादि-रूप-प्रकारेणैव सम इत्य् अर्थः ।]4

यतस् त्वयि बद्ध-सौहृदाः । सौहृदम् अत्र श्रद्धा । मार्गाद् इति साधकत्व-प्रतीतेर् एव । त्वद्-बद्ध-सौहृदत्वाद् एव त्वया इत्य्-आदि । तथोक्तं त्वां सेवतां सुर-कृताः [भा।पु। ११.४.१०] इत्य्-आदौ । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेत् [भा।पु। ११.२.३५] इत्य्-आदौ च ।

॥ १०.२ ॥ श्री-ब्रह्मादयः श्री-भगवन्तम् ॥ १२१ ॥


  1. भक्तेर् अन्यत् तु (ब् ग्रोउप्) ↩︎

  2. बृहन्-नारदीये च— ↩︎

  3. सेए सेच्तिओन् १११ अबोवे। ↩︎

  4. “यद् वा…सम इत्य् अर्थः” इत्य् अधिक-पाठः ख-ग-घ-च-करलिपिषु प्राप्तः ॥ ↩︎