११८

श्री-व्यासोऽपि तन्-महा-पुराण-प्रचारणारम्भे भक्तिम् एव परम-श्रेयः-प्रदत्वेन समाधाव् अनुभूतवान् इति प्रथम-सन्दर्भे दर्शितं, भक्ति-योगेन मनसि [भा।पु। १.७.४] इत्य्-आदि-प्रकरणे ।

तथैव को लाभ[११.१९.३०] इति प्रश्नानन्तरं श्री-भगवतैव सम्मतम्—भगो मे [भा।पु। ११.१९.४०] इत्य्-आदौ,

लाभो मद्-भक्तिर् उत्तमः [भा।पु। ११.१९.४०] इति ।

स्पष्टम् ॥

॥ ११.१९ ॥ श्री-भगवान् ॥ ११८ ॥